________________
पञ्जिका (सर्ग ७)
४६५
लतालयात्, गंतुं—यातुं, अक्षमपदः - असहिष्णुचरणः स्यात् । कः अर्थः ? मया
,
बद्धस्त्वं पदमात्रमपि गन्तुमक्षमः । तु-पुनः, तत्र- प्रियजने तव मानसं - भवदीयमनः, संगतं - आसक्त । त्वं स्वागसः - निजापराधस्य फलं ध्रुवं - निश्चितं, अवाप्नुहि - लभस्व । इति चतुभंगोन्वयः
"
३२. पुष्परे० । दक्षिणः - कलत्रद्वयावर्जको नेता, स्वापराधविफलत्वं - निजापराधवैफल्यं, आचरत्-कृतवान् । किं कृत्वा ? कांचित् मानिनीं एवं अनुनीय - अनुकूलीकृत्य । एवं इति किं ? हे प्रिये ! वां युवयोः मया व्यक्तिरेव - पृथगात्मतैव न विदिता- न ज्ञाता, किं विशिष्टयोः वां ? पुष्परेणुपरिपिंज-रास्ययोः ।
३३. प्रेयसि । तत्सखी इति उवाच - वदतिस्म । किं कृत्वा ? योषितः - कांतायाः, प्रेयसि - भर्त्तरि प्रणयविह्वलं - प्रेमविकलं मनः - चित्तं समनुनीय - ज्ञात्वा । हे गजेन्द्रगामिनि !, बहुवल्लभे प्रिये - बहुस्त्रीके नायके, तव का रतिः - को
रागः ।
३४. ईरिते० । सा कामिनी, सहसं सहासं यथा स्यात् तथा, जगाद - अब्रवीत् । किं विशिष्टा सा ? इतीरिता एवं भणिता । इतीति किं ? हे सखि ? त्वयाभवत्या, उचितं - योग्यं वचः, -वचनं, नोदीरितं न कथितं । हे सखि ! त्वं न किं वेत्सि न जानासि । हि यतः सकलप्रिया सुधा - विश्ववल्लभं अमृतं,
भाग्यतः- दैवात्, करगता स्वाद्यते - भुज्यते । इति चतुर्भगोन्वयः ।
३५. ज्ञातने० । हे सखि !
अभिमानविधायिता न ज्ञात नै कललनारसः सन् - अवगत बहुस्त्रीस्वादः, कोपमानकलनां-क्रोधाहंकारपरिज्ञानं अवैति - कलयति । हि यतः सलिलस्य मंथने को रसः स्यादिति त्रिभंगोन्वयः ।
भर्त्तरि
अवेत्तरि - अविज्ञातरि भवति । यत् - यस्माद्धेतोः,
मानकारिता
प्रियः - वल्लभः,
३६. कांचन० । स राजा दयितामुखांबुजं - वल्लभामुखकमलं, चुम्बतिस्म । कि कृत्वा ? कांचन कामिनीं प्रवञ्चय- विप्रतार्य, किं विशिष्टां कांचन कामिनीं ? प्रसवरेणुमुष्टिना - पुष्पपरागमुष्टिना, घूर्णिताक्षकमलां-संभ्रान्तनयनकमलां, हि-यत:, कोविदः - पंडित:, मनीषितं - चित्ताभीप्सितं कुरुते ।
३७. एहि एहि० । कापि कामिनी एवमक्षरमयीं - इतिवर्णरूपां सुमस्रजं - पुष्पमालां, वल्लभगले - प्रियकंठे, निचिक्षिपे - समारोपितवती । एवमिति किं ? हे वर ! - नाथ !, त्वं एहि एहि - आगच्छ, आगच्छ त्वं मोहनं - रतं, देहि, त्वं इतरासु - कांतासु, हृदयं–मनः, न विधेहि मा कुरु इति चतुभंगोन्वयः ।