________________
४६४
भरतबाहुबलिमहाकाव्यम् २५. कोपने० । सखी नायिकां प्रत्याह-हे कोपने ?-कोपवति !, अधुना-इदानीं, — दयितेन-भा, त्वं युक्तमेव, निगद्यसे-कथ्यसे। तत्-तस्माद्धेतोः, त्वं प्रणयिनं
दुर्लभं दुर्मदान् न मन्यसे, भृशं-अत्यर्थं, आत्मनः कृते-आत्मोत्सेकाय वा स्वकृते, त्वं गर्वितासि-दृप्ता भवसि । इति त्रिभंगोन्वयः ।
२६. ईदृशः० । आलि:-सखी, तां-मानवतीं, इति-उच्यमानं, प्रणयकर्कशं
प्रेमकठिनं, वच:-वचनं, अन्वशात्-कथयतिस्म, इतीति किं ? हे मानिनि !, त्वया-भवत्या, ईदृशः-एवंविधः, प्रियतमः-भर्ता, न हि प्राप्य एव । अनेनविलासिना, त्वादृक्-भवत्सदृशी, दयिता-वल्लभा, किं दुर्लभैव ? इति त्रिभंगोन्वयः ।
२७. आगते०। कापि सुभगत्वविता-सौभाग्यमदोन्मत्ता, 'आलिं-सखी आह ।.
कस्मिन् सति ? विलासिनि-प्रेयसि, शृण्वति-आकर्णयति सति । हे सखि ! प्रेयसा-प्रणयिना, आगतेन-आयातेन किं, नागतेन किं ? अत्र नाकादित्वं । वा सखिना-मित्रेण, गतेन किं ? यात्वित्यर्थः किं विशिष्टेन प्रेयसा ? इतरस्मिन्-अन्यस्मिन्, वल्लभाजने वा• वस्तुनि, निबद्धं-नियतं, चेतः- . मानसं, येन, असौ, तेन ।
२८. मुच मा० । प्रियसखी तो नायिकां इत्युवाच। इतीति किं ? हे मानिनि !, .. त्वमधुना-अस्मिन् समये, रुषं मुंच-त्यज । यत्-यस्मात् कारणात्, तवैव
विरहः-विप्रयोगः, भविष्यति । पुनः स्मर:-कामः,, व्याज-छलं, आप्य-लब्ध्वा, त्वां निहनिष्यति-मारयिष्यति । इति चतुर्भगोन्वयः। ,
२६. जीविते । स युवा सरभसं यथा स्यात् तथा मानिनी सस्वजे-आलिंगितवान् ।
किं विशिष्ट: सः ? प्रीतिकातरमना:-स्नेहभीतचित्तः, किं कृत्वा ? इति तत् मानवत्याः प्रणीतं निशम्य-श्रु त्वा। इतीति किं ? हे सखि !, प्रेयस:वल्लभस्य, सुखदुःखयोः निवेदनं-ज्ञानं, जीविते सति-प्राणेसु सत्सु भवति ।
३०. क्लुप्तपु०। कापि कामिनी कान्तं-भर्तारं इति जगौ-कथयतिस्म। किं
विशिष्टं कान्तं ? सागसं-सापराधं । किं क्रियमाणं? गले-कण्ठे, तत्क्षणोच्चितसुमस्रजा-तत्कालग्रथितकुसुममालया, बध्यमानं-नियम्यमानं । किं कृत्वा ? लतालयं-लतामंडपं, उपनीय-आनीय । किं विशिष्टं लतालयं ? क्लृप्तपुष्पशयनं-रचितकुसुमशय्यं ।
३१. संयतो० । नायिका नायकं प्रत्याह । हे प्रिय ! निबिडं-दृढ, यथा स्यात् तथा
त्वं मया अधुना संयतोऽसि-बद्धोसि । पुष्पमालया इति शेषः । भवान् इत;