________________
पञ्जिका (सर्ग)
४६३ १८. पल्लवैः । तेन भरतेन, कापि-कामिनी, हृदंतरे-वक्षोमध्ये, निहता-ताडिता,
तत: हृष्यतिस्म-हृष्टा । हि-यतः, प्रियाजनः प्रीतिकातरधिया-स्नेहभीरुबुद्ध्या।
दयितेन-वल्लभेन, तुष्यति-तुष्टिमाप्नोति । १९. मामपा० । काचित् कामिनी इति कारणात् रुषा-क्रोधेन, चूर्णमुष्टिमक्षिपत्
चिक्षेप। कथं ? तन्मुखं-तस्य भरतस्य मुखमनुलक्षीकृत्य । किं विशिष्टां चूर्णमुष्टि ? नयनतांतिक.रिणी-लोचनक्लान्तिविधायिनी, इतीति किं ? अनेन विलासिना, पूर्वतः-प्रथमतः, किमियं-कथमेषा दयिता ताडिता किंकेल्लिपल्लवैः ? किं कृत्वा ? मामपास्य-त्यक्त्वा, अपि-पुनरर्थे, अमुना-विलासिना
ऽहं हता-मारिता। इति त्रिभंगोन्वयः । २०. युक्तमे० । स राजा कांतया-वल्लभया, इति-पूर्वोक्तप्रकारेण, निहतोपि
ताडितोपि, अतुषत्-तुष्टिमापत् । इतीति किं ? अनया विलासिन्या एवं युक्त कृतं, दृशोरेव विदधे-कृतः, कथं ? यथोचितं-यथायोग्यं यथा स्यात्तथा । हि
यतः, इह-अस्मिन्, प्रेम्णि-स्नेहे, का विपरीतता-को विपर्ययः । २१. काचिदु० । हि-निश्चितं, अमुना-विलासिना, काचिद् अशारदा-अलज्जावती,
चित्तकाम-मनीषिताभिलाषं, नायिता-प्रापिता। किं विशिष्टा काचित् ? द्रुम-वृक्षं, प्रत्युन्नतमुखी-ऊर्वीकृतवदना। किं विशिष्टं द्रुमं ? हस्ताभ्यां दुर्लभतमानि प्रसूनानि यत्र, तंदेतादृशं कं-शीर्षं यस्य, असौ, तं । वा स्वार्थे कः । किं कृत्वा ? स्वीयमंसं अधिरोप्य-निजं स्कंधमारोप्य । काचना० । चंचरीकतरुणेन-भ्रमरयूना, काचनापि कामिनीयं, अधरौष्ठपल्लवे चंबिता-दष्टा। किं कुर्वती ? दयितस्य-भतु: कंठदाम गुंफितुं-ग्रथितं, कुसुमानि-पुष्पाणि, चिन्वती-कुसुमावचयं कुर्वाणा इत्यर्थः, तत्क्षणात्तत्कालतः ।
चुबितं । कापि दयिता, मधुकरेण-भ्रमरेण, तन्मुखं-तस्या वदनं चंबितं, वीक्ष्य-दृष्ट्वा , रुषं दधौ-धृतवती। किं कुर्वती ? भ्र विभंगेन कुटिलं-वक्र ईदशेन चक्षुषा, प्रियं-प्रणयिनं, तर्जयंती-ताडयन्ति । किं विशिष्टं प्रियं ? निरागसं-अपराधरहितमपि।
२४. खंजना० । नायको नायकां प्रत्याह-हे खंजनाक्षि ! मया तव मंतु:-अपराधः,
नादधे-न कृतः । किं विशिष्टेन मया ? प्रणयभङ्गभीरुणा-प्रेमभंगकातरेण, तेन-विलासिना, कापि मानिनी, मुहुरन्वनीयत-क्रोधोपशमनं चक्रे । इतीति किं ? हे प्रिये ? तव सखी साक्षिणी वर्त्तते । इति त्रिभंगोन्वयः ।