________________
४६२
भरतबाहुबलिमहाकाव्यम् विलोक्य आतुषत्-तुष्टवान् । किं विशिष्टाः ? उन्मिषत्कुसुमकुड्मला:• विकस्वरपुष्पस्तबका एव स्तना यासां, ताः, ताः। पुनः किं विशिष्टाः ? चपकप्रसववत्-गंधफलीपुष्पवत्, गौररोचिषः-वीतकांतीः । पुनः किं विशिष्टा: ? कोकिलास्वरं बिभ्रतीति धारयंतीति तास्ताः। पुनः किं विशिष्टाः ? सितच्छदानांहंसानां, ध्वाननूपुरैः मनोरमा:-मनोज्ञाः, क्रमा:-चरणा: यासां तास्ताः । वनावनीपक्षे-क्रमोनुक्रमः । पुनः किं विशिष्टा: ? कुंदवत् सुन्दरा दन्ता यासां तास्ताः । पुनः किं विशिष्टा: ? परिस्फुरंति-दीप्यमानानि, चंचरीकरूपनयनानि यासां, तास्ताः । पुनः किं विशिष्टाः ? सुमानि-पुष्पाणि, तद्वत् स्मितं-ससितं यासां, तास्ताः । पुनः किं विशिष्टा: ? पल्लवाधरवती:-द्रुमप्रवालरक्ताधरौष्ठाढ्या, इति युग्मार्थः।
१३. सर्वतो० । इह-अस्मिन् वने, अस्य-भरतस्य, कौमुदं रज:-कुवलयोत्थः परामः,.
कौमुदीभ्रमं-चंद्रातपभ्रान्ति, अतीतनत्तरां-अतिशयेन विस्तारयामास । किं . विशिष्टे वने ? सर्वतः-समंतात्, फलिनीलतया-प्रियंगुवल्या, असिते-श्यामे । किं विशिष्टं रजः ? व्योम्नि-नभसि, कीर्ण-व्याप्तं । पुनः किं विशिष्टं ?
पक्षिपक्षपवनेन-प्रोडीयमानविहंगपक्षवायुना, प्रपंचितं-विस्तरितं । १४. केकया। तदा-तस्मिन् समये वनं अब्दसुहृदां-मयूराणां, केकया-वाण्या,
कामिनो:-स्त्रीपुंसोः, इति वददिव-कथयदिवासीत् । इतीति कि ? भो कामिनी! इह-अस्मिन् वने, वां-युवां, खेलतं-क्रीडतं । श्रियो-लक्ष्म्या: फलं कलयतप्राप्नुतं । हि-यतः, अमूदृशः-एतादृशः अवसरः-समयः, दुरासद:-दुःप्रापः । कलन्संख्यानगत्योश्चुरादिरदंतत्वात् वृद्ध्यभावः । .
१५. संश्रितः० । अंजसा-अत्यन्तं, ललनाभिः-स्त्रीभिः स भरतः, संश्रितः-आलिंगितः।
किं विशिष्टाभिः ललनाभिः ? उल्लसंती-समुदयंती, दोः उरोजानां-भूजपयोधराणां, कमला-लक्ष्मीः, यासां, ताः, ताभिः, उत्प्रेक्षते-महीरुहां-वृक्षाणां स्पर्द्धयेव । किं कुर्वतां ? वल्लरी:-लताः, दधतां-धारयतां, किं विशिष्टा वल्लरी: ? फलमृणालैः शोभंते-राजंति, इत्येवंशीलाः फलमृणालशोभिन्यः, ताः ।
१६. अन्वभू० । इति कारणात्, अग्रतः पुरस्तात्, तरुराजि:-द्रुमश्रोणिः, नृत्यतीव
नाट्यं करोतीव । कस्मात्? वातधूतनवपल्लवच्छलात्-वातांदोलितनूतनकिसलयव्याजात्, इतीति किं ? अहमद्य भारतेश्वरसमागमात्, शुद्धतां-निर्मलत्वं,
अन्वभूव-प्राप्नुवं । १७. उद्धतं० । मातरिश्वना-वायुना, प्रोन्मिषत्स्थलसरोजिनीरजः-विकसत्स्थल-.
कमलिनीरजः, नभसि-आकाशे, उद्धतं-उड्डापितं । उत्प्रेक्षते-प्रियागमात् काननश्रिया आत्मशिरसि-निजे मूनि, उत्तरीयमिव न्यस्तं-आरोपितं । कस्मात् ? प्रियागमात्-भरतागमनतः ।