________________
४५६
भरतबाहुबलिमहाकाव्यम् ४७. देव ! चं० । हे देव !, भवदीयं यशश्चंद्रति-चन्द्रवदाचरति । सांप्रतं-अधुना,
च-पुनः, इतरेषां-अन्येषां, क्षितिभुजां-राज्ञां, यशांसि तारकंति, तारावदाचरंति, तत् तवैव कतित्वं-पांडित्यमस्ति। हि-निश्चितं, यत्र यशश्चन्द्र कलंकांको न भवति वापवादः । इति चतुभंगोन्वयः कलंकांकोपवादयोः इत्यनेकार्थसंग्रहे ।
४८. त्वामपा० । हे राजन् ! यः पुमान् अत्र-लोके, विह्वलतया अन्यं-अपरं, श्रयते
सेवते। किं कृत्वा ? त्वां-भवन्तं, अपास्य-त्यक्त्वा, किं विशिष्टं त्वां ? ' सकलार्थदहस्तं-सकलवस्तुदायिकरं, हि-यतः, स पुमान् दुर्मतिः-दुर्बुद्धिः स्यात्, यः शुष्यदंबुस रसीस्थितिमान् भवति-शुष्कपल्वलस्थाता । किं विशिष्ट: ?
स सुधाब्धि-क्षीरसमुद्रं अपास्ता-उज्झिता।। ४६. को गुण । हे राजराज ! हे राजेन्द्र !, स तव को गुणो वर्तते येन गुणेन
त्वया चपलापि-अनवस्थायिन्यपि जयश्री: निबद्धा-नियंत्रिता, च-पुनः, या श्रीर्भवतः-त्वत्तोन्यं-अपरं, एव न वृणीते-नांगीकुरुते, अतः हेतोः, इह-अस्मिन्जगति, त्वदीयसुभगत्वं-भवदीयसौभाग्यं, ईड्यं-स्तोतव्यं, अस्माभिरिति शेषः । इति चतुर्भगोन्वयः ।
५०. पश्य प० । हे राजन् ! त्वबलं-तव सैन्यं खररुचि-श्रीसूर्य, पिदधाति
आच्छादयति, त्वं पश्य-विलोकय, किं विशिष्टं त्वबलं ? गगनक्षितिचारिव्योमवसुधासंचरणशीलं । महस्वी सूर्यः कथमत्र लोके ख्यातिमेति-प्राप्नोति । किं विशिष्टो महस्वी ? इति-पूर्वोक्तं अवेक्ष्य-विचार्य, गगनांतविहारी
नभःप्रान्तविहरणशीलः। ५१. इत्थम० । क्षितिपतिः-राजा भरतः, पुर:-नगा एव सविधे-समीपे, काननानि
वनानि, लुलोके-दृष्टवान् । किं कुर्वन् ? इत्थं-पूर्वोक्तः, त्रयोदशवृत्तः, अर्थिजनवाक्यपदानि-वंदिजनवचनस्थानान्याकर्णयन्, किं विशिष्टानि काननानि ?
समंतात्-सर्वतः, शाखिभिः-द्रुमः, परिवृतानि-व्याप्तानि । ५२. स्वस्वना० । पृथिवीशा:-द्वात्रिंशत् सहस्रपरिमिता भूपाः, क्षितिपतेः-भरतस्य,
पृष्टतोन्वयु:-अनुयान्तिस्म । किं विशिष्टाः पृथिवीशाः ? स्वस्वनागहयपत्तिरथाढ्याः । पुनः किं० ? उत्तरोत्तररमाभिः-उत्कृष्टोत्कृष्टलक्ष्मीभिः, अर्पितंदत्तं, चित्रं-आश्चर्यं यः, ते । कस्येव ? भानोरिव, यथा भानोः पृष्टतः करभरा अनुयांति।
५३. आदिदे० । नागराः सतर्क-सविचारं यथा स्यात्तथा परस्परमित्यूचुः । कि
कृत्वा ? तां ध्वजिनीं-सेना, समवलोक्य-दृष्ट्वा, किं विशिष्टां ध्वजिनीं ?