________________
४५५
पञ्जिका ( सर्ग ६ )
४०. मौक्तिकं । हे राजन् ! भवता यशोभिः क्ष्मातल - भूवलय, अशोभि - शोभितं । उपमीयते—मौक्तिकैरिव । किं विशिष्टः यशोभिः ? विमलवृत्तगुणाढय :विशदाचारगुणपूर्णैः, मौक्तिकपक्षे - विमलानि - निर्मलानि, वृत्तानि - वर्तुलानि, गुणाढ्यः -सदवरकानितैः, पुनः किं विशिष्टैः ? दिक्पुरंधिहृदयस्थलेन . धायै: - वहनीयैः, अमीषां यशः मौक्तिकानां अम्बुधिरिव त्वं हेतुः - निदानमसि ।
४१. वाम० । हे वदान्यवतंस ! - दातृशिरोमणे ! तवैतद् वामदक्षिणकरद्वयं स्वर्गरत्नफलदाधिकं - चिंतामणिकल्पद्रुमातिशायितं, अस्माभिः, ऊह्यं - ज्ञातव्यं । कस्मात् ? हृदयेप्सितवस्तुं प्रापणात् । कथं ? सर्वदैव ।
४२. वाहिनी० । हे राजन् ! तत् तस्माद्धेतोः त्वं कथंचिन् महता कष्टेन, इह - अस्मिन् लोके, उपमेयः- उपमानासि । अयं वाहिनीपतिः - नदीनाथः, त्वं सेनानाथः । परं जडतया - जाडो न आढ्यः - पूर्णः, त्वं नेदृक् । गौरकांति:चन्द्रोपि संश्रितदोषः, त्वं त्यक्तदोषः । तेजसां निधिः- श्रीसूर्योऽपि क्षतधामा - हतप्रभावः संध्यासमये । त्वं नैतादृक् ।
४३. आयुगां० । हे भरतावनिशक्र ! - भारतवर्षभूमीन्द्र !, ते तव, कीर्त्तिरियं स्थाणुः - शाश्वती भविष्यति कथं ? आयुगान्तं - आकल्पान्तकालमपि, कुत्र ? अत्र-लोके ं । यत्-यस्मात् कारणात् भाविनोपि भविष्यंतोपि क्ष्माभृतः - राजानः, वसुमतीं अवितारः - रक्षितारः । किं कृत्वा ? अमुं त्वदीयां कीति अनुसृत्य - अनुगम्य ।
४४. कोत्तिनि० । हे राजन् ! तव कीर्तिनिर्जरवहा - भवत्कीत्तिगंगा, रमणतीरगमित्री - समुद्रतटगमनशीला विद्यते । किं विशिष्टा ? विष्टपत्रितयपावनदक्षाजगत्त्रतयपवित्रीकरणनिपुणा, पुनः किं ? राजहंसानां - भूपालश्रष्ठानां मरालानां च रचितः - विहितः, अधिक: हर्षः यया, सा ।
त्वत्प्र० । हे राजन् ! त्वदरिणां भवदुवैरिणां, यशांसि - कीर्त्तयः, इह-अस्मिन्, त्वत्प्रतापदहने - भवत्प्रतापाग्नौ भस्मसादु भवंति । तव यशोनंवयोगी स्वेच्छया अति, किं कृत्वा ? अनेन भस्मना वपुः - शरीरं विलिप्य ।
I
४६. व्यानशे० । हे राजन् ! सपदि -सत्वरं, तव यश: चतुराशाः - चतुर्दिशः, व्यानशेव्यापत् । कस्येव ? वाहिनीशितुः - समुद्रस्येव यथा समुद्रस्यांबु - पानीयं विवृद्धवृद्धि प्राप्तं चतुराशा व्याप्नोति, तत्रांबुधौ कोपि राजा - प्रत्यर्थिभूपः, न सेतवति - पालिवदाचरति, तु पुनः, तत्र मार्गणाः - अर्थिनः, नितांतं मीनवदाचरंति । अत्र चतुर्भंगोन्वयः ।
अनिमिषंति