SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पञ्जिका (सर्ग४) . ४३५ ७१. अथ यु० । हे राजन् ! अथ-अनन्तरं, अयं बाहुबलिः, चरसंप्रेषणरूपगजितारवैः गजितध्वनिभिः, त्वया युत्कृतये-युद्धकर्षणाय, प्रबोधितः-जागरितः कथं ? कः केनेव ? कृषीबलो जलदेनेव । ७२. अधुना० । हे राजन् ! अधुना-अस्मिन् समये, अस्य-बाहुबलेः, मनोवनांतरे हृदयारण्यमध्ये, अभिनिवेशाग्निः-कदाग्रहदावाग्निः, उदच्छत्तरां-उच्छल तिस्म । किं कत्तु ? तव-भवतः, राष्ट्रपुरद्रुमोच्चयं-जनपदनगरवृक्षसमूह, परिदग्धंभस्मीकत्तु, किलेति संभाव्यते, तदंतरा-तस्यांतराले, को भावी ? न कोपीत्यर्थः। ७३. त्यजतः । हे राजन् ! तत्-तस्मात् कारणात्, त्वममूदगृहनं-एतादृशं विचारं त्यज-परिहर, हे महीपते ! युद्धाय मनः कुरु-विधेहि। महीभुजां-राज्ञां, कलि:संग्राम एव सत्तमा-प्रधाना, स्थिति:-सीमाऽस्ति । कस्मै ? विजयश्रीवरणाय । ७४. रथप० । हे राजन् ! त्वया-भवता, रथपत्तितुरंगसिंधुराणां क्षुरतलोद्धतरेणुभि रसमयेऽनवसरे, सविता-सूर्यः, अस्तमयं नीयते-प्राप्यते । तस्य बाहुबले: का विचारणा ? ७५. नृपतेः । हे नृपते ! अस्य-बाहुबलेर्जयो रथांगत:-चक्रात भवता दुर्लभो न विभाव्यः-न ज्ञातव्यः, सुलभ · एव भविष्यति । दनुजारिमणिप्रभावतःचिन्तामणिमहिमातः, दारिद्रपराभवः किमु न हि भवेत् ? भवत्येव । . ७६. भवदी० । हे राजन् ! जगति-विश्वे, यदृच्छया-स्वैरतया, भवदीययशोऽध्व गामिनः-त्वद्यशःपान्थस्य, · संचरणं-संचारः, भवतात्-भयात् । कस्मात् ? प्रतिपक्षपर्वतप्रतिघातातू-विपक्षाद्रिविध्वंसात्, किं विशिष्टस्य भवदीययशोध्वगामिनः ? हरिदंतगांहिनः-दिगन्तसंचारिणः ।। ७७. तव पा० । हे पार्थिव ! तव-भवतः, चक्र-रथांगं वा कटकं, पुरत:-अग्रे, यदा-यस्मिन् काले, भावि-भविष्यति । तदा परिपंथिगण:-शत्रुसन्दोहः, कथमासितुं-स्थातुं विभुः । हि-यतः, मंत्रपुरस्तात् प्रणवः-ओंकारः, पापहृत्पापहर्ता। ७८. इति । चक्रभृत्-भरतः, न हि किंचिदुवाच । किं विशिष्ट: ? रणोत्सवेन द्विगुणो य उत्साहः-प्रागल्भ्यं, तेन विवृद्ध ः मत्सरो यस्य, असौ, कया ? तस्य-सुषेणसैन्याधिपस्य, गिरा-भारत्या, हि-यतः नृपोऽर्थसिद्धयेकार्यनिष्पत्तये, श्रितमौन:-तूष्णीको भवति ।
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy