________________
४३४
'भरतबाहुबलि महाकाव्यम्
६४. स्वजनैः० । हे राजन् ! नृपः - राजा, स्वजनैः - ज्ञातिवर्गीणः, न विशिष्यते-न विशेषः क्रियते । च- पुनः बांधवैः - भ्रातृभिर्न विशिष्यते । वा - अथवा, पवनातिपातिभिः - वायोरतिवेगैः, वाहैः - अश्वैः, न विशिष्यते । केवलं विजयेनशत्रुपराभवनेन विशिष्यते । कः केनेव ? मणी - रत्न, महसेव- तेजसेव, अत्रलोके विशिष्यते । किं विशिष्टो मणिः ? महान् गुरुः ।
६५. विनिह० । हे राजन् ! नृपः- राजा,
तु-पुनः, जयमर्जयेद् - जयोपार्जनं कुर्यात् । किं कृत्वा ? बंधु - भ्रातरमपि विनिहत्य - हत्वा । किं विशिष्टं बंधुं ? रणांगणागतं–संग्रामाय समेतं । किमु इति वितर्के ? अंशुमान् - सूर्यः, ग्रहकान्तिसंहृते शशांकादिसर्वग्रहतेजः संहरणात्, तेजस्विवरत्वं कलयेत् - प्राप्नुयात् ।
६६. अनुनी० । हे राजन् ! असौ क्षितीश्वरः- राजा, क्वचित् स्थाने, अनुनीतिमतां वरः - अनुनयवतां श्रेष्ठो भवति । क्वचिदपि स्थाने ईर्ष्यालुर्मन्युमान् भवति । यद्यस्माद्धेतोरनुनीतिः क्रोधोपशांतिकरणं प्रतिपक्षेषु-वैरिषु, आयतोउत्तरकाले, श्रिये - लक्ष्म्यै भवेत् । किं विशिष्टानुनीति: ? अपेक्षया वांछया, अंचिता - पूर्णा । प्रतिपक्षेभ्यो यदि किंचिद् ग्राह्म तदानुनीतिरेव युज्यते ।
६७. सरुषा० । हे राजन् ! नृपो दुर्नयकारिणः स्वजनान् सरुषा भ्रु वाभंगे, विनिषेधये तु - निवारयेत् । कः कानिव ? कज्जलध्वजः - दीप:, शलभान् - पतंगानिव । कया ? स्फुरदचिः प्रथया - ज्वलद्उल्कया, कुतः विदूरतः ।
६८. अनुनी० । हे राजन् ! क्षमाभृतां - राज्ञां सविधेरेव - सभाग्यस्येव, अनुनीतिःअनुनयः, उचितः - योग्यः । किं विशिष्टा अनुनीतिः ? स्वादुरसश्रियांचितास्वादवतूबललक्ष्म्या युक्ता । केषां केव ? क्ष्मारुहां-तरूणां फलसंपदिवीचिता । कस्य ? समीपगस्य- पार्श्ववत्तिनः ।
६६. यदि भ० । हे राजन् ! यदि इह-अस्मिन् बांधवे त्वयि विषये भक्तिरस्ति तदाऽयं बाहुबलिः त्वां कथं स्वयं नाययौ - नागतवान् । कथं भूतं त्वां ? हरितां-दिशां, जयात्-विजयं विधाय समेतं - समागतम् । अत्र क्यप् लोपे पंचमी वक्तव्यः । हि यतः, सज्जना मिलनोत्सुक्यजुषः - मिलनोत्कंठावंतः ।
७०. अभिषे० । हे राजन् ! तु-पुनरयं बाहुबलिस्तवाभिषेकविधी - भवद्राज्याभिषेके, सांप्रतं - अधुना कथं नागतवान् ? किं विशिष्टाभिषेकविधौ ? समिता:समागताः, असंख्याः–अनेके, सुरासुरेश्वरा यत्र, असो, तस्मिन् । हि यतः, समये-अवसरे, स्वजनानां संगमः -समागमो भवति ।