________________
पञ्जिका (सर्ग४) .
४३३ दुर्नयिनं-दुर्नयकारिणं, स्वजनं-बन्धु, विवर्द्धयेत्-वृद्धि नयेत् । विकृतः-विकारं गतः, व्याधिः-गदः, किं गुणाय अलं-समर्थः स्यात् ? किं कुर्वन् ? विग्रहान्तरेशरीरमध्ये, निवसन्नपि-तिष्ठन्नपि ।
५८. नपतिः । हे राजन् ! सचिवाद्या:-अमात्यमुख्या, अपि नृपतिर्न सखा-राजा
न मित्रमिति वाक्यतः-नीतिवचनात्, ध्रुवं-निश्चितं, बिभ्यति-भयमाप्नुवन्ति । ' के इव ? गजा इव। यथा दवधूमध्वजतः-दवाग्नेः, यथा राजा बिभ्यति ।
किं विशिष्टाद्दवघूमध्वजतः ? पृथुलज्वलदुग्रतेजसः विपुलोद्दीप्यमानतीक्ष्णमहसः । ५६. बहवो० । हे राजन् । महीभुजा-राज्ञा, तेषु स्वयं-आत्मना, गतशंकसंस्तव:
निःशंकपरिचयः, न हि प्रविधेयः-न कर्त्तव्यः, भुवस्तले बहवोऽनेके, नृपसंपर्थिन:-राज्यश्रीकामुकाः सन्ति । च-पुनः, खला:-दुर्जनाः, अपि बहवः सन्ति ।
६०. चकते। हे राजन् ! यो राजा, प्रतिपक्षलक्ष्यतः-वैरिशतसहस्रात्, न हि
चकते-न बिभेति । क इव ? केशरीव । यथा केसरी-सिंहः, गजयूथात्-द्विरदवृन्दात् न चकते। हि-निश्चयेन, स राजा राज्यं परिभुक्ते-पालयति । कि विशिष्ट: असौ ? अखंडविक्रमः-संपूर्णपराक्रमः । हि-यतः, अभयः-भयरहितः, श्रियां-लक्ष्मीणां, पदं-स्थानं । इति चतुभंगोन्वयः ।
६१. अबलो० । हे राजन् ! महीभुजा-राज्ञा, रिपु:-शत्रुः, हृदये-मनसि, शंकुरिव
कीलक इव, अभिमन्यतां-विज्ञायतां । किं विशिष्टो रिपुः ? अबलोपि-बलरहितोऽपि, कुंजराशनांकुरलेश:-प्लक्षप्ररोहलवः, किं विहारभित्-प्रासादपातकः, न हि स्यात् ? किं कुर्वन् ? उदयन्नपि-उद्गच्छन्नपि । .
६२. न पृथक् । हे राजन् ! क्षितीश्वर:-भूमिपालः, दैन्यभरात्-दीनतातिशयात्,
पृथक्ज़नवद्-इतरलोक इव, दयालुतां न दधते-न धारयति । दधि धारणे भ्वादिः । जनाः-लोकाः, रयाद्-वेगाद्, इमं राजानमवजानन्ति-अवगणयन्ति । कस्माद् ? इत्युदीरणाद्-इति कथनाद् । इतीति किं ? सदयः-दयावानयं भूपः, कंचिदपि न मारयति । इति त्रिभंगोन्वयः ।
६३. वसुधा० । हे राजन् ! वसुधाधिपतेः-भूपस्य, वचःशरा:-वचनबाणाः, यैः
वैरिभूपालः उपलीभूय-पाषाणी भूत्वा (भूय ?) नोरीकृता:-नांगीकृताः, तत्-तस्मात् कारणात्, नृपः-राजा, इह-अस्मिन् शत्रौ पाषाणीभूते घनटंकीभवति-दृढपाषाणदारको भवति । तेषु-शत्रुषु, मृदुता-मार्दवं, न हि सांप्रतं-न युक्तमिति त्रिभंगोन्वयः।