________________
४३२
भरतबाहुबलिमहाकाव्यम्
अयं अभिमानवान्-अहंकारी, चारपुर:-दूताग्रतः, नानुनिन्ये-नानुनयं चकार । हि-यतः, ईदृशां-एवंविधानां अनुनयो न स्यात् । इति चतुर्भगोन्वयः । .
५१. प्रणय०। हे नाभिभूपसूजननाकाशदिनेश!-ऋषभस्वामिवंशांबररवे !, त्वयि
विषये यादशः प्रणयः इहोस्ति बांधवे-बाहुबलौ, तादृश एव प्रणयो न ह्यस्ति । हि-यतो, द्विपक्षत:-उभयपार्वतः, प्रणयः-प्रीतिः, धृतये-सुखाय भवति । इति त्रिभंगोन्वयः ।
५२. प्रणया० । हे राजन् ! फिलेति निश्चयेन, स्मयरेणु:-अभिमानधूलिः प्रणयामृत
वीचिसंचयं-स्नेहसुधाकल्लोलराशि, म्लानिमपंकिलं-मालिन्यकर्दमाढय, क्षणात् कुरुते । किं विशिष्टा स्मयरेणुः ? हृदयस्थलीभवा । पुनः किं विशिष्टा? कोपसमीरणोत्थिता-क्रोधानिलोड्डापिता।
५३. वसुधे० । हे राजन् ! इयं वसुधा बंधुप्रणयादिविह्वलं-भ्रातृस्नेहाद्यातुरं, पति
स्वामिनं, नहीहते-न वांछति । कस्मात् ? इति-अमुना प्रकारेण, तदीयतर्कणात्तस्या वसुधाया विचारात्, इतीति किं ? · तु-पुनः, इतरत्र-अन्यत्रस्थाने, बांधवादौ, प्रणयी-प्नेहवान्, मदीहक:-मद्वांछकः कथं स्यात् । कोर्थः ? यो
वसुवाभिच्छति स बांधवादीन् नेच्छति । ५४. प्रणयो । हे राजन् ! यद्यस्माद्धेतो उपाधिमत्तया प्रणयः-स्नेहः, दिने दिने
अधिकं यथा स्यात्तथा परिही त-क्षीयेत । मषीचयोऽमृतांबुनिधेः-क्षीरसमुद्रस्य, अपां भरं-पाथसां निचयं, किमु न श्यामयते-कथं न श्यामलीकरोति । अत्र करणे निः ।
५५. नृपते० । हे राजन् ! नृपते:-राज्ञः, स्वजनाः-ज्ञातिवर्गीणाः, बांधवा:-सहोदराः,
बहवो विद्यते । एषु संस्तव:-परिचयः, नोचितः-न युक्तः । यद्यस्मात् कारणात एते संस्तुताः-परिचिताः, अधीशं-स्वामिनं, अवमावत एव-अवगणनां कुर्वन्त्येव । यादृशा वयं तादृगयमपि । के इव ? यथाऽजरास्तरुणाः, जरिणंजरीयांसं, अवमन्वते । इति चतुर्भगोन्वयः ।
५६. अपि दु०। हे राजन् ! नृपती-राजा, निजं-आत्मीयं, दुर्नयकारिणं
दुर्नीतिविधायिनं, प्रीतिभरातू-स्नेहातिशयान्, न बाधते-न व्यथते। प्रणयेप्रेम्णि, कलहो न सांप्रत-युक्तं न। क इव । अनयच्छल इव । यथा
वसुधाधीशे-पार्थिवे, दुर्नय-छद्म न युक्तं ।। ५७. प्रणय० । हे राजन् ! नृपः-भूपतिः, प्रणयस्य वशंवदः सन्-प्रेमायत्तः सन्,