________________
भरतबाहुबलि महाकाव्यम्
४३०
३६. अभवं० । हे राजन्नहं पदे पदे - स्थाने स्थाने, तव तजोभिः - भवत्प्रभावैः, जितका शिशेखरः - जिताहवशिरोमणिरभवमासम् । क इव ? धनंजय इव । यथाग्निस्तरणेः दीप्तिभिः सूर्यस्य कान्तिभिः, ध्वान्तहृते - तमोहरणाय, भृशं ज्वलति देदीप्यते ।
३७. विरच० । हे राजन् ! विनमिः - वैताढ्याधिपतिः नमिना - बन्धुना सह भवन्तं - त्वां, अनमत्-प्रणनाम । किं कृत्वा ? उच्चकैः - अत्यर्थं, द्वादशहायनावधिद्वादशवर्षप्रमाणं, समरं - संग्रामं, विरच्चय - रचयित्वा । हि यतः, प्रबला रिपवः - वैरिणः, नम्रीभूताः श्रिये - शोभायै भवंति ||
३८. विहिते ० । हे राजन् ! त्वया भवता, आयितुं - आगंतुं, मनसि - चित्ते, विहितेकृते सति, स त्रिदशो - देवो, दरिद्वारकपाटसंपुट-गुहाद्वारकपाटपेटां उद्घाटयत् । स कः ? य उग्रतेजसा - प्रबलमहसा, भ्रु वा - संगेण (भ्रूभंगेण), भुवं-पृथ्वीं, चलयेत्-कंपयेत् ।
३६. निचखा० । हे विभो ! अहं तवाभिधांकितान् - भवन्नामचिन्हितान्, विजयस्तंभभरान् सुरशैवलिनीतटांतरे - गंगातीरमध्ये, निचखान- अध्यरोपयं । निचखानेत्यत्र णबुत्तमवचनं । उत्प्रेक्षते - भवदीयकीत्तिगोः - त्वदीययशोधेन्वाः, कीलानिशंकूनिव ।
1
,
४०. निधयो० । हे राजन् ! निधयोपि - निधानान्यपि तवैव दृश्यतां - दृष्टिविषयत्वं, गतवंतः-प्रापुः । उत्प्रेक्षते - सुकृतैः - पुण्यैः आहृताः, आहूता इव । वा सुरसिंधोः गंगाया मूर्तिमंतः मनोरथाः - अभिलाषा इव । किं विशिष्टा निधयः ? प्रचितः - पुष्टः, यः श्रीभरो-लक्ष्म्यातिशयस्तेन भासुरं - दीप्यमानं, अन्तर् - मध्ये, येषां ते ।
नाभवन्न
४१. इति भा० । हे प्रभो ! धुनेदानीं तव काचिदूनता - हीनता, भवति स्म । किं कृतवतस्तव ? भारतवर्षपर्षदि - भरत क्षेत्रसदसि सामर्थ्य माप्तवतो - लब्धवतः । कस्येव ? घुसदां पत्युः -- इन्द्रस्येव । किं विशिष्टस्य ? अधिकश्रियः - अभ्यधिकलक्ष्मीकस्य ।
प्रभुतां
४२. न सुरो० । हे प्रभो ! येन - सुरादिना तव निदेशनीरज - भवदाज्ञाकमल जगत्त्रये - त्रैलोक्ये, शिरसा - मस्तकेन, नो अधार्यत - नाधारि । स सुरो नास्ति, स नरो नास्ति, स किन्नरो नास्ति स विद्याधरकुंजरोपि - विद्याध ष्ठोपि नास्ति ।
४३. तदियं० । हे राजन् ! तत् तस्मात् कारणात् इयं तव का सरस्वती - वाक्, यया सरस्वत्या बाहुबलिः बलवानुच्यते । अत्र लोके सुपर्व पर्वतः - मेरुः,
किमु