________________
४२६
कः पुमान् सुधामयं निलयं - सौधमित्यर्थः । घूमभरेण कश्मलं - मलिनं, कुरुते - विदधाति ।
पञ्जिका (सर्ग ४)
२६. अजिते० । बांधवे जितेप्यजितेऽपीति मम वाच्यं वचनीयता, भूतले भवति । भरतेशः -षट्खंडाधिपतिः, बंधुविग्रहं - भ्रातृकलहमकृत - कृतवान् । किं विशिष्टो भरतेशः ? कलिताखिलभूमिभृन्नयः - परिज्ञातसर्वराजनयः ।
३०. इति वा० । सुषेण सैन्यसट् - सुषेण अभ्येत्य - आगत्य, भूविभोः - भरतस्य तिष्ठतिस्म । क इव ? शिष्य इव ।
,
नामा सेनानीः, सहस्रदेवताऽधिष्ठितः, इति वादिन एव पुरतः - अग्रतः, आस्तेयथांतेवासी सद्गुरोः पुरतः तिष्ठति । किं विशिष्ट: ? करचुंबितभालपट्टिकः, पुनः किं विशिष्टः ? समदः - सगर्वः, शिष्यपक्षे - सहर्षः ।
३१. मगध० । हे राजन् ! प्रथमं तावत् मगधाः - मंगलपाठकास्तेषां ध्वनिः - निर्घोषः, तेन मिश्रो यो मन्मथध्वजनादः–तूर्यस्वनः, निषिध्यतां - निवार्यतां । किं विशिष्टः ? चमरांचितवारवर्णिनीनां चामरसंयुतवारस्त्रीणां, करयुक्कंकणसंरवेण-करकलितकंकणध्वनिना, उद्धतः -उद्दामः ।
३२. अथ भा० । अथ - अनंतरं, हे भारतवासुव ! - हे भरतक्षेत्राधीश !, त्वं मे - मम गिरि - भारत्यां, श्रुती - कर्णौ, विनिधेहि - स्थापय । किं विशिष्टायां गिरि ? मंत्ररसैकस दुद्मनि - आलोचनरसैकवसतौ । क इव ? गिरिरिव । यथा पर्वतः स्वकन्यकें—–नद्यौ, सारस्वततीरसंमुखे - समुद्रसंबंधितटाभिमुखे विनिदधाति ।
विनिवेदयितुं - ज्ञापयितुं
३३. त्वयि दि० । हे प्रभो ! त्वयि दिग्विजयोद्यते सति कैश्चन भूपालैः बलं तव - भवतः, इति हेतोश्चापचापलं - कोदंडचपलता, विदधे - क्रियते स्म । इतीति किं ? अयं राजा नोऽस्मान्, स्वसेविनः - निजसेवकान् कृत्वां रक्षति ।
३४. पतिप० । हे राजन् ! यदा भवता - त्वया, प्रतिपक्षाः - शत्रवस्त एव वनद्रुमाः, तेषां अवलिः - श्र ेणी, तस्या परिवाहाय -ज्वालनाय, दवायितं - वनवह्नीयितं, तदा मया पवनायितं - वायुवदाचरितं । तदनु- तदनंतरं कोपि - प्रतिपक्षः, स्थातुमलं समर्थो नाभून्नासीत् ।
३५. रिपुवं० । हे नृपोत्तम ! तवाग्रतो - भवतः पुरस्तात्, अहं रिपुवंशकृते - वैरिवंशछेदाय, परशुः - कुठारः, अभूवमासं । अरुणो - गरुडाग्रजः, समुदेष्यतः - उदयं प्राप्स्यतः, रवेः अग्रे–पुरस्तमोहृते - ध्वान्तहरणाय किं न भवेत् ?