________________
४२८
भरतबाहुबलिमहाकाव्यम् सरित:-नद्याः, रयः-वेगः, तट-पुलिनं, किं न प्रकाशयेत्-प्रकटीकुर्वीत । कस्मात् ? तटशाखिनिपातनातू-तीरद्रुमपातनात् इति त्रिभंगोन्वयः। .
स विभुः । इह-अस्मिन् लोके, अवनेः-वसुंधरायाः, किं विभुमर्तः ? स कः ? यः स्वपरी-निजानिजौ, हिताहितौ-भक्ताभक्तौ, न वेत्ति-न जानाति । किलेति सत्ये, कोपि न हुताशं-अग्नि, संस्पृशेत्-परामृशेत् । कुतः ? स्वपरानवबोधहेतुतः-स्वीयास्वीयाज्ञान कारणात् । इति त्रिभंगोवियः ।
२२. तरसै० । विभोः-समर्थस्य, मतिमत्ता-पांडित्यं, अधिकवृद्धिमश्नुते । केवलं
परं, तरसा-बलेनैव न। तरसो-बलादपि मतिः प्रवर्द्धते । तत्-तस्मात् कारणात्, धियैव-बुद्ध्यैव, धीधनः-पंडितः उदीर्णः-कथितः । इति त्रिभंगोन्वयः ।
२३. कुलके० । इह-अस्मिन् लोके, सः-पुमान्, कुलकेतु:-कुलध्वज उच्यते । स
कः ? यः सर्वथापद:-विपत्तितः, स्वकुलं-निजवंशं, रक्षति-त्रायते । हि-यतः, प्रियबन्धुः, वल्लभस्वजन, इभः-हस्ती, यूथप:-यूथनाथो भवति । हरि:-सिंहः, अधिकशक्ति:-अधिकबलः, यत्-यस्मात् कारणात् एक एव भवति । इति चतुर्भगोन्वयः ।
२४. अविमृ० । यः पुमान्, अविमृश्य-अविचार्य, नियां-कर्म, करोति, स पुमान्
तत्फले बहुधाऽनुशयीत-पश्चात्तापं कुर्वीत । किमिति वितर्के, बली-बलवान्, बलात्-हठात्, धन्वनि-धनुषि, नामिते सति-भग्ने, युधि-संग्रामे, कि
विदधीत-किं कुर्वते ? न किमपि । इति त्रिभंगोंन्वयः। २५. अहमे० । यद्यहमेव दुर्नयं-दुर्नीति, बंधुवधलक्षणां करोमि तहि-तदा, कः
पुमान् न्यायं प्रकरोति-विदधाति । सुरवाहिनीजलं-गंगापानीयं, यज्जगतांलोकानां, शुचये-शुद्धयेऽस्ति, तदेव सांप्रतं-युक्तं भवेत् । इति चतुर्भगोन्वयः ।
२६. नपनी० । मया नपनीतिलता-राजनीतिवल्ली, जगदावालपदे-विश्वकेदार
स्थाने, याऽधिरोपिता सा नृपनीतिलता, बलिबंधुवधैकपशु ना-बलवद्भ्रातृघातककुठारेण, मूलतः, कथमद्य मया छिद्यते-प्रोन्मूल्यते । इति त्रिभंगोन्वयः ।
२७. सुलभा० । हरिणीदृशः-स्त्रियः, श्रियः-लक्ष्म्यः, सुलभाः स्युः । खलु-निश्चितं, ___ राज्यस्थितयोप्यदुर्लभा:-अदुःप्रापाः स्युः । पुनः स बंधुः क्वचित् न ह्यवाप्यते,
यो विधुरे-कष्टे, वृतीयितुं-वृतिरिवाचरितुं तिष्ठति । इति पंचभंगोन्वयः । २८. न हि ता०। सांप्रतं-अधुना, मया बंधुवधेन-भ्रातृघातेनं, विशदं-निर्मलं,
तातकुलं-ऋषभवंशः, न हि कलंक्यते-न सकलंकीक्रियते किलेति संभावनायां।