________________
४२७
पञ्जिका (सर्ग४) .
वारयितुं शक्या, येन न शाम्यति-न शमं गच्छति । स निधिर्न, स मणिर्न,
स कुंजरो न, स सैन्याधिपतिः-सेनानीन, स भूमिराट्-राजाऽपि न । १४. अहम० । तातेन-वृषभस्वामिना, नौ-आवां, उभौ वपुषैव-शरीरेण, पृथक्
भिन्नीकृतौ, न हि हृदा-मनसेति पृथक् कृतौ । इतीति किं ? अहमपि दविष्ठतांदूरतां अभजं । तेनापि-बाहुबलिना किल-निश्चयेन, विदूरतः स्थितमिति
चतुर्भगोन्वयः। १५. भवता । तटिनीश्वरः-समुद्रः, अंतरा-मध्ये, भवतात्-भूयात् । क्षितिभृच्चयः
पर्वतसमूहः, विषमः-स्थपुटः, अंतरा-मध्ये, अस्तु । जलाधिका सरित्-नदी, अन्तरा-मध्ये, अस्तु । किलेति सत्ये, आवयोरंतरा पिशुनो माऽस्तु । इति चतुर्भगोन्वयः । .
१६. प्रणय० । पूर्ववृत्तार्थमेव स्पष्टयन्नाह । तटिनीश्वरादिकैः-समुद्रादिभिः, अंतर
मध्ये, पतितः प्रणयोऽयं-प्रीतिरेषा, न हीयेत-न हीनीक्रियेत । पिशुनेनदुर्जनेन, क्षणात् प्रणयो विहीयते-न्यूनीक्रियते । हि-यतो, मत्सरी-खलः, सिंधुवरात्-समुद्राद्, अधिकः स्यात् । इति त्रिभंगोन्वयः ।
१७. अपची० । असुमतां-प्राणिनां, वपुः-शरीरं, वयसा-बाल्यादिना सार्द्ध-सह,
इह-अस्मिन् लोके, संततं-निरंतरं, अपचीयत एव-हानिः प्राप्यत एव । यदा वयो हानिं गच्छति तदनुसारेण वपुरपि हानि गच्छति । अपचीयते इत्यत्र कर्मकर्तृत्वं अवसातव्यं क्वचित्-कुत्रापि, सज्जनयो:-मित्रयोः प्रणयो
नापचीयते। किं विशिष्टः प्रणयः ? हृदावनिलब्धसंभवः-मनोमहीसंप्राप्तजन्मा। १८. द्विजरा०। इह-अस्मिन् लोके, कः पुमान् द्विजराजनदीशयो:-चन्द्रसमुद्रयोः,
तुला-सादृश्य, लभते-प्राप्नोति । किं कुर्वतः ? हरिणोौ -मृगवडवानलौ, दंधतो.-धरतोः किं विशिष्टौ हरिणोौं ? अवर्णदौ-वचनीयतादायिनौ । अपिपूनः, तो-द्विजराजनदीशौ, अयशो-निंदां धरतः, परं तौ हरिणोवौँ नोज्झत
एव-जत्यजत एंव । इति त्रिभंगोन्वयः । १६. अगुणा । पूर्वमेव वृत्तार्थं स्पष्टयितुमाह। यः पुमान्, स्वकान्-निजान,
अगुणान्-निर्गुणान्, अपि नोज्झति-न त्यजति। हि-निश्चितं, स पुमान् गंभीरिम्ना गुणेन संश्रितः-आश्रितः स्यात् । तत्-तस्मात् कारणात्, तत्रगुणवति पुंसि, संपदः-श्रियः, निवसंति-निवासं कुर्वन्ति । हि-यतो, गभीरके
उत्तानस्थाने, अमृतं-पानीयं, न तिष्ठति । इति चतुर्भगोन्वयः । २०.
स्वयमे । यो-राजा, निजं-आत्मीयं स्वयमेव-आत्मनैव, निहत्य-व्यापाद्य, अनुशायीत-पश्चात्तापं कुर्वीत। स निंदनीयतां-गर्हणीयतां, एतीति-प्राप्नोति ।