________________
'भरतबाहुबलिमहाकाव्यम् . ६. श्रु तया० । अयं बाहुबली रणस्य वार्त्तया श्रुतया-आकणित या, मनसा-हृदयेन
उत्साहं दधौतरां-धरतेस्म । अधुना-इदानीं, आगतो रणोऽस्य बंधो जयोबाह्वोरुत्सवं कथं न दधाति ।
७. कठिनो० । अस्य-बाहुबलेः, युधि-संग्रामे, काम:-अभिलाषः, यथा प्रवर्त्तते न तथा राज्यसंग्रहे । किं विशिष्ट: कामः ? भटिमाधिकत्वतः-वीरताति शयत्वतः, कठिन:, हि-यतः, शौर्यवतां-बलवता, समर:-संग्राम:, वल्लभ:-प्रियो भवति ।
८. यदि त० । यद्यस्य बाहुबलेः तबलं दोये-भुजयुगले, विद्यते । तत् किं बलं ?
यन्मया बाल्ये दृष्टं । वा यतो बलाद् अहं विशेषतो शंके-विशेषात् भीतवान् । तदास्य-बाहुबलेः, पुरतः कोप्यासितुं-स्थातुं, युधि-संग्रामे, न विभुः-समर्थः
स्यात् । कस्येव ? विभावसोऽग्नेरिव । ६. बहुधा० । अस्य-बाहुबलेः, मया शैशवे-बाल्ये, बहुधा-भूरिप्रकारैः, बलं .
परीक्षितं-ज्ञातं । केनेव ? स्वर्णकृता-सुवर्णकारेणेव । वसुवन-स्वर्णवत् । पूर्वतः-प्रथमतः, अपरीक्षितं-अविचारितमेव वस्तु, विदुषां-पंडितानामनुताप
कृत्-पश्चात्तापकारी भवेत् । १०. इतर० । ममेतरस्य-बान्धवादन्यस्य, जये नेदृशो विचारो वर्तते । खलु-निश्चितं,
अयं बांधवः-भ्राता, वर्त्ततेऽत एव विचारः। हि-यतो, जलद:-मेघः, कशानुशान्तये-वह्निशमनाय, प्रभविष्णुः-समर्थोऽपि, विद्युतं-तडितं, न शमयेत्
न निर्वापयेत्-इति त्रिभंगोन्वयः । ' ११. इतरे०। मदीयबांधवा:-मद्भातरः, इतरे-अष्टानवतिरपि, मामनापृच्छय,
यद्यस्मात् कारणात् ययुस्त-मां-जग्मुः । तद्विरहस्तेषां बांधवानां वियोगः, मम अरु तुदः-मर्माभिदोऽस्ति । कस्येव ? करिणः-गजस्येवांकुशो मर्माभिदो भवति । किं विशिष्टस्य करिणः ? अशांतरुचे:-मदोन्मत्तस्य। किं विशिष्टस्य मम ? (अशांतरुचेः) अशमिताभिलाषस्य।
१२. अयमे । समस्तबंधुषु-सकलभ्रातृषु, अयमेव-बाहुबलिः, एकतमोऽवशिष्यते ।
कथंभूतोऽयं ? स्थितिमान्-मर्यादावान्, कस्य क इव ? यथा तिमिरारे:सूर्यस्य, अहनि-दिवसे, भार्गव:-शुक्रः, पुरोऽवशिष्यते। किं विशिष्टस्य तिमिरारेः ? समा-समस्ता, संहृता-क्षिप्ता, तारकावलिः-नक्षत्रश्रेणिः येन,
असो, तस्य । १३. न निधि० । ममैकबांधवी-एकबंधुसंबंधिनी, तृष्णा-स्पृहा, दुर्वार्यतमा-दुःखेन