________________
पञ्जिका (सर्ग ४)
इथं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, . देवश्रीवृषभध्वजांगजकथाश्लोकप्रथा
पंजिका ।
नैपुण्य व्यवसायि पुण्य कुशलस्यास्थारविंदोद्गता, या तस्यां निजनीवृदागतचरः सर्गस्तृतीयोऽभवत् ॥
इति श्रीभरतबाहुबलि महाकाव्ये पंजिकायां दूतप्रत्यागमो नाम तृतीयः सर्गः ।
४२५
चतुर्थः सर्गः --
१. अथ ० । अर्थ - अनन्तरं, क्षितिराजः - भरतः, वचनं वदने - मुखे, दधे - धृतवान् । किं कुर्वन् ? दूतगिरा - चरवाण्या ज्वलन्नपि - तपन्नपि । किं विशिष्टं वचनं ? प्रणयांचितं - प्रेमसहितं पुनः किं वि० ? क्षपितारिविग्रह - दूरीकृतारातिकलहं । क इव ? अभ्भोद इव, यथा घनो विद्युता - तडिता, ज्वलन् - दीप्यमानः, वदने अंबु - पानीयं धत्ते । किं विशिष्टं अंबु ? अरि-चक्र, तस्य वि-विशेषेण, ग्रहो - ग्रहणं अर्थाच्छकटः । क्षपितोऽरिविग्रहः - शकटसंचारो येन, तत्, तत् ।
यत्र,
२. अह मे० । किं वचनं जगादेत्याह । अहमेव विलोलतां - चांचल्यं गतः - प्राप्तः । क इव ? अवनीरुह इव । यथावनीरुहो - वृक्षः, पवनोद्भूतः सन् - वायुना कंपितः सन्, विलोलतां गच्छति । यत् - अस्माद्धेतोः अहं बांधवं प्रत्यमुं चरं प्रजिघाय - प्राहिणवं- - जब उत्तमवचनं । हि यतः ईदृशाः - एवंविधाः, दूतकर्मणे न मताः - न संमताः । इति चतुभंगोन्वयः ।
दौत्याय
३. वितनो० । अहं यदि - चेत्, इह-अस्मिन् समये, बलिना - बाहुबलिन्स स्वबंधुना वितनोमि - करोमि, तदा अहं जलवासिनस्तिमेःजनोक्तिभिः– लोकवाक्यैः, एतास्मि - प्राप्तास्मीति
सार्द्धं, विग्रहं समरं, मच्छस्योपभां-तुलनां, द्विभंगोन्वयः ।
४. निहता । यो - बाहुबलिः, दिविषच्छ्वलिनीरयेऽपि - गंगापूरेपि, वेतसवृत्ति न ह्याश्रितः । किं विशिष्टे दिवि० ? निहताः - पातिताः, अयनभूभृतो - मार्गपर्वताः, याभिरेतादृशा ऊर्मिकाः - कल्लोलाः, यत्र, असौ तस्मिन् । तस्याभिमानिनः पुरो - अग्रे, किमहं स्यां ?
५. निहता० । अहमस्माद् - बाहुबलेः सकाशात्, सभयः - सभीतिः सन् पितुरंतिकंतातस्य समीपं गतवान् । किं विशिष्टादस्मात् ? मया दृढमुष्टिना - गाढमुष्टिप्रहारेण निहतान् - ताडितात् । तु पुनः, किलेति सत्ये, तातेन - वृषभस्वामिना, ते - तव, अग्रजः - ज्येष्ठ भ्राता पूज्य इत्येष - बाहुबलिः, निषिद्धः - वारितः । किं कुर्वन् ? मां तुदन् - मुष्ट्यादिना प्रहरन् - इति द्विभंगोन्वयः ।