________________
४२४
भरतबाहुबलिमहाकाव्यम् . ५६. स नौवि० । हे राजन् ! स-राजा, जाह्नवीये-गांगेये, तीरे-तटे, सेनानिवेशं
ततान-चकार । किं कृत्वा ? सिन्धूनद्यौ अवतीर्य-उत्तीर्य, कैः ? नौविमानैः, किं विशिष्ट: (सः) ? तपस्क्रियाभ्यां आराधितानि-स्ववशीकतानि सन्निधानानि येन, असौ । किं विशिष्टे तीरे ? धुलोकलक्ष्मीमुषि--स्वर्गश्रीस्तेये। . .
विलोक्य० । हे राजन् ! गंगापि रोमोद्गमलक्षतो-रोमहर्षमिषात्, द्राक्-शीघ्र, बाणांतपक्षानिव-कामबाणपक्षप्रान्तानिव, संबभार-धरतिस्म । कया ? पुष्पेषांकामस्य, बाणाग्राणि-शरोपरिभागः, विभिन्ना-विहता, तनुस्तयेति । किं. कृत्वा ? तं-सार्वभौम, मन्मथहारिरूपं-काममनोज्ञाकारं, विलोक्य-दृष्ट्वा ।।
६१. व्यजिज्ञ० । हे राजन् ! सा स्वर्वधूः-गंगादेवी, दूतीमुखेन भूपं-भरतं, एवं
वक्षमाणप्रकारेण, व्यजिज्ञपत्-विज्ञप्ति कारयामास । किं विशिष्ट भूपं ? अनन्यरूपं-अनितसौन्दर्य । का स्मेरनेत्रा-स्त्री, स्वमुखेन-स्वास्येन, कामाभिलाषं स्मरमनोरथ, वक्तुं-कथयितुं, विभवेत्-समर्था स्यात् । किं विशिष्टा? अलज्जा। .
इति द्विभंगोन्वयः । ६२. प्रीतिर्भ० । हे राजन् । दूत्यागत्य किं जगाद ? हे नरदेव ! भवति-त्वयि,
प्रीतिः-प्रणयोऽस्ति । तत:-तस्माद्धेतौ, तया-गंगादेव्या, मर्त्यमात्रे विचारो न विधीयते-न क्रियते । हि-यतः, अनूहा-वितर्करहिता, प्रीति:-मैत्री, विद्यते । देवीयं अधुना-साम्प्रतम्, भवद्वियोगे-त्वद्विरहे, विधुरा-व्याकुलाऽस्ति । इति
चतुर्भूगोऽन्वयः । ६३. त्वं मानु० । हे राजन् ! सा दूती पुनः किमाह ? हे भरत ! त्वं मानुषीणां
भोगे-सुखे, निमग्नं-निलीनं, चित्तं-मानसं यस्य, असौ, एतादृशो वर्त्तसे । हिनिश्चयेन त्वं स्व........।
अत्र पञ्जिकायां नवमः पृष्ठः सम्पूर्णो भवति अत ऊध्वं षट् पृष्ठाः (१०-१५) न समुपलभ्यन्ते षोडशपृष्ठस्य प्रारम्भे तृतीयसर्गस्य अन्तिमश्लोकस्य किञ्चिदंशः प्राप्तोऽस्ति ।]
........'षयामास । किं विशिष्टं दूतं ? वाक्यस्य-वचनस्य, योऽवकाशंअवगाहनं, तत्र विदुरं-पंडितं । किं विशिष्ट: क्षितीशः ? पुण्योदयाढ्यहृदयःधर्माभ्युदयभरितमनाः । पुनः किं विशिष्ट: ? सदयः-सद्भाग्यो वा सको, हि-यतः, तादृशां-चक्रवर्तिसदृशानां, विनिषेवणं-पर्युपासनं, अत्र-अस्मिन् लोके, न वंध्यं-न निष्फलं स्यात् ।।