________________
४१.
पञ्जिका (सर्ग२)
४२१ विशिष्टानि मुखानि ? अद्रष्टुमर्हाणि-अविलोकितुं योग्यानि । पुनः किं विशिष्टानि मु० ? रजोभिर्म लिनीकृतानि-रेणुभिर्मलीमसानि । कि विशिष्टः रजोभिः ? हयक्षुराग्रोधृतैः-अश्वखुरशिखोत्थापितैः । केषु ? अस्य प्रयाणेषुभरतस्य यात्रासु। अनावृ० । हे राजन् ! हरिद्भिः-दिग्भिः, इतीव रेणुच्छलतो-रजोव्याजेन, नीलपटी-श्यामोत्तरीयं, समंतात्-सर्वतः, समाददे-संजगृहे। इतीति किं । नोअस्माकं, अयं पतिः-भर्ता, अनावृतं-अनाच्छादितं, मुखाब्ज-मुखकमलं, मा . पश्यतु-मा दृष्टिविषयीकरोतु । प्रायेण स्त्रियो हि प्रियावलोकने मुखमाच्छा
दयंति । किं विशिष्टोऽयं ? प्रभुतोपपन्न:-प्रभुत्वसंयुतः । इति द्विभंगोन्वयः । ४२. मदेन । हे राजन् ! राजा-भरतः, चक्रेण अधिकदुःप्रधर्षः-अत्यंतदुःसहः,
आभात्-विराजतेस्म । केन क इव ? मदेन हस्तीव-दानवारिणा गज इव । मृगारिणा-सिंहेन वनप्रदेश इव । आशुगेन-वायुना अग्निरिव । उनिलेनवाडवाग्निना, पयोधिः-समुद्र इव । उपमानोपमेयाभ्या मिति पंचभंगोन्वयः ।
४३. यथारुण । हे राजन् ! तीक्ष्णरुचेः-सूर्यस्य, यथाऽरुण:-विनतासूनुः, अग्रे
भवति, तथा अस्य-राज्ञः, चक्र-रथांगं, पुरतः-पुरस्तात् बभूव-आसीत् । किं विशिष्टं चक्र ? सतेजः-सप्रभावं, कया ? दुरुत्तरारातितमःप्रहारनितांतदाक्षिण्यत्तया-दुरंतशात्रवांधकारहननात्यंतविद्धत्त्वेन ।
४४. .
• राजन् !० । हे राजन् ! भवबंधुबलांबुराशि:-त्वद्भातृकटकसिंधुः, प्रकाम
अत्यर्थं, एतत्प्रणिपातसेतुबंधप्रबंधेन-भरतनमस्कारसेतुबंधाग्रहेण, विगाहनीयःतरीतव्यः । किं विशिष्ट: ? चतुर्दिगाप्लावनबद्धकक्ष:-चतुराशाक्रमणबद्धपरिकरः ।
४५. परिस्फु० । हे राजन् ! स राजा भरतः, वसुधाधराणां-राज्ञां, दुःसहो बभूव।
किं कुर्वाण: ? चक्र-रथांगं, दधान:-धरमाणः किं विशिष्टं चक्र ? उल्बणाभं-भीषणाभं । किमिव ? तीक्ष्णद्युतेः-सूर्यस्य बिंबमिव । पुन: किं विशिष्टं चक्र ? परिस्फुरत्कांतिसहस्रदीप्रं-राजमानप्रभासहस्रभासुरं, क इव ? शक्र इव । यथेन्द्रः आत्तशबः-विहितवज्रो, गिरीणां दुःसहो भवति ।
४६. किमत्र०.। हे राजन् ! क्षितिवल्लभानां-राज्ञां जयेऽत्र किं चित्रं-आश्चर्य
वर्त्तते ? अयं-भरतः, सुराणां-देवानां, अप्यजय्यः-न जेतुं शक्यः । हि-यतः, सतां-महतां, प्रभावः-महिमा, वचोतिरिक्तः-वचनातीतोस्त्येव किं विशिष्टः प्रभावः ? देवासुरवृन्दवंद्यः-सुरासुरसमूहस्तुत्यः ।