________________
पञ्जिका (सर्ग२)
४१६
त्वया-भवता, चरस्यापि वचोऽवधारणीयं-मनस्यानेयं, सरसीवरस्य-मानससरसः किं मलीमसं-कलुषं, वारिदवारि-नवमेघजलं, श्रिये-शोभायै, न हि भावि । इति द्विभंगोन्वयः।
२६. शतं सु० । हे राजन् ! वृषभध्वजेन-श्रीवृषभस्वामिना, भिन्नेषु देशेषु सुतानां
शत विन्यवेशि-आरोप्यत । किं कृत्वा ? नामांकतो-अभिधानचिन्हतो, राजपदेऽभिषिच्य-राज्याभिषेकं विधाय । हि-यतः, सतां वृत्तं-महतां आचारः, सततं
निरंतरं, प्रवृत्त्यै अगात् । ३०. तदंत० । हे राजन् ! तदन्तर् यद् ऋषभसूनुशतानामध्ये कोपि भुवस्तलं-मही
मंडलं, प्लावयितुं-द्रावयितुं, सहिष्णु:-समर्थोस्ति । किं विशिष्ट: ? बलातिरिक्तः-पराक्रमाधिकः । क इव ? कल्पान्तकालाब्धिरिव । यथा कल्पान्तकालजलधिर्भुवस्तलं प्लावयितुं सहिष्णु : स्यात् । किं विशिष्टः ? उत्तरंग:-उत्कल्लोलः, अस्य-ऋषभसूनुसमुदयस्य, निषिद्धिः-निवारणं, सौभ्रात्रसीमैव
सुबंधुभावमर्यादा एव । इति त्रिभंगोन्वयः । ३१. ज्येष्ठोग्र० । हे राजन् ! तातेन यो भरतः स्वीयपदे-निजस्थाने, न्यवेशि-स्थापितः
किं विशिष्टो यः ? अग्रसंजाततया-प्रथमलब्धजन्मतया, गुणैश्च-सत्त्वादिभिः, ज्येष्ठः-वृद्धः । तस्य भरतस्य प्रतापाब्धिहिरण्यरेता:-प्रतापवडवानलः, प्रत्यर्थि
पाथांसि-वैरिजलानि, तनूकरोति-कृशीकुरुते । इति द्विभंगोन्वयः । ३२. केचिन्न० । हे राजन् ! केचिन् नृपाः-राजानः, प्रभोः-भरतस्य, पुरो-अग्रे,
केवलं प्रांगणं-आसनाभावादजिरं आश्रयन्ति । किं विशिष्टाः राजानः ? अप्यूर्ध्वजानुक्रमवर्तमानाः-ऊर्ध्वजानुचरणवर्तमानाः । किं कृत्वा ? मौलिमणीमस्तकरलं, अपास्य-त्यक्त्वा, पुनः किं कृत्वा ? गुरु-महतीं, एतदाज्ञां-भरताज्ञां, निवेश्य-स्थापयित्वा, शिरसीति शेषः ।
___३३. भूपाल । हे राजन् ! तस्य-भरतस्य, राजाजिरं-राजसभाप्रांगणं, राजति
शोभते । किं विशिष्टं राजाऽजिरं ? भूपालवक्षस्थललंबिहारसंघट्टसंघर्षणचूर्णगौरं-नृपहृदयस्थललंबमानहारपरस्परमिलनसंघर्षणक्षोदधवलं । उपमीयतेकीत्तिशीतांशुरोचिच्छुरितश्रिया इव-यशःशशधरकिरणस्फुरितलक्ष्म्येव ।
३४. सुतामु०। हे राजन् ! च-पुनः, केचिन् नृपाः-राजानः, सुतां-तनयां, उपादाय
प्राभृतीकृत्य, एनं-भरतं स्वजनं विधाय प्रणेमुः-ववंदिरे, के कमिव ? गिरीन्द्रमुख्या नीलकंठमिव । यथा हिमाचलप्रभृतयो महादेवं स्वजनं विधाय प्रणमंतिस्म। किं विशिष्टमेनं ? प्रभूतभूत्यैकनिबद्धचित्तं-बहुलसंपत्येक नियतमानसं, महादेवपक्षे-भूतिभस्म ।