________________
४१८
भरतबाहुबलि महाकाव्यम्
२२. निःशंक ० । हे दूत ! त्वं मे - मम, पुरोऽग्रे, त्वद्भर्तुः - भवत्स्वामिनो, निःशंक यथा स्यात् तथा, शासनं- आज्ञां, आविष्कुरु- प्रकटय । किं कृत्वा ? आतंकं - भयं, दूरादपास्य-त्यक्त्वा, किं विशिष्टमातंकं ? अरातिभूभृद्हृत्कुंजवास्तव्यंप्रत्यनीकभूपालहृदयारण्यवासिनं । हि यतो नृपाः- राजानः, चारपुरःसराः भवंति ।
२३. इतीर० । बहलीक्षितीशः - बाहुबलिः, इति - अमुना प्रकारेण, ससंभ्रमं - सत्वरं, सप्रणयं- सस्नेहं, सनीति-सनयं यथा स्यात् तथा ईरयित्वा - कथयित्वा क्षणंघटिकाषष्ठ्यांशं, विशश्राम - तस्थौ । अथ चरः सुवेगनामा, भूपमुवाच - अब्रवीत् । किं विशिष्टश्चरः ? भालस्थलीमिलत्पाणिः - कृतांजलिः । इति द्विभंगोन्वयः ।
२४. राजन् ० । हे राजन् ! भरताधिराजो - भारतवर्षाधीशो, ममाननेनं वचो - वचनं, भवंतं-त्वां, अभिधत्ते - कथयति । किं विशिष्टं वचः ? प्रादुर्भवन्नीति - प्रकटीभवन्न्यायं । हि-यतः, क्षितिवल्लभाः - राजानः, नीतिप्रियाः - न्यायवल्लभाः, भवंति । च-पुनः एवं पूर्वोक्तप्रकारेण भवदुवन् न प्रीतिपरा:प्रणयासक्ताः भवति । इति त्रिभंगोन्वयः ।
२५. सा भार० । हे राजन् ! भारतवासवस्य - भरतचक्रिणः, सा भारती - वाणी, मां-अनुचरमात्रं, आललंबे - समाश्रितवती । सा का ? या नृपमौलिभिः - राजशिरोभिः, नवमल्लिकेव - नवीनमालतीव नित्यं प्रियेत । किं कुर्वती ? स्फुरंतं-विस्तरयंतं, आमोदभरं - आनंदातिशयं, वहंती - दधाना | पक्षे - परिमलभरं । इति द्विभंगोन्वयः ।
1
२६. वयं च० । हे राजन् ! वयं चराः श्रितानुवृत्ति - आश्रितप्रभोरनुमति, न विलंघयामः-नातिक्रामामः । किं विशिष्टा वयं ? स्वामिनिदेश निघ्नाः - पत्युरादेशवशाः । पुनः किं विशिष्टाः ? जगत्यां - विश्वे, तमोहराः- स्वस्वामिबलादिज्ञापनेन अज्ञानहराः । पुनः किं विशिष्टाः ? तापकरा:- मत्स्वामी त्वां हनिष्यतिइत्यादि वचनेन कष्टकराः । के कमिव करा: ? उष्णद्युतिबिंबचारमिव - यथा किरणाः सूर्यमंडलचारं नातिक्रमति । करपक्षे - ध्वांतहराः संतापकृतः ।
२७. संदेश० । हे राजन् ! संदेशहारी- दूतो, यो निजनायकस्य - स्वस्वामिनः, प्रत्यर्थिनां - वैरिणां, पुरस्तात् - अग्रे, नैर्बल्यं - बलराहित्यं, आविष्कुरुते - प्रकटीकरोति, स जनः पयोधिवह्निसमानतां - वडवानलसादृश्यं गच्छति - प्राप्नोति । कथंभूतः सः ? संश्रयारिः - आश्रयवैरी । इति द्विभंगोन्वयः ।
२८. अतस्त्व० । हे श्रीभरतानुजन्मन् - भरतावरज ! अतः कारणात् वक्षमाणात्,