________________
४१७
परस्परमिलनमेघवर्षणात् शतधा विवृद्धं । किं विशिष्टैः ? ह्रत्क्षेत्रभूम्यां - हृदयक्षेत्रक्षोण्यां, परिवापं - बीजसंतानं, एतैः - आप्तैः तु पुनः अत्र मिलनवर्षणेऽवग्रहो-वृष्ट्यन्तरायकारी, विदेश एवास्तीति द्विभंगोन्वयः ।
2
पञ्जिका (सर्ग २ )
१६. तत् तत् पि० । हे दूतं ! अशेषं समस्तं पितुर्लालनं, च-पुनः, बांधवैः सह ताः पूर्वोक्ताः बाललीलाः स्मृत्वा - संचिन्त्य मे - मम मनः स्वयमेव शांति यातिप्राप्नोति । कस्येव ? द्विपस्येव । यथा द्विपस्य - हस्तिनो, मनः स्वयमेव शांति यति । किं विशिष्टस्य द्विपस्य ? नगाहृतस्य - वंध्याचलानीतस्य ।
०
१७. श्रीतात । हे दूत ! पुरीप्रदेशाः - अयोध्योद्देशाः, मम मनोऽभिनन्दन्ति-प्रीतिमुत्पादयन्ति । किं विशिष्टा: पुरीप्रदेशाः ? श्रीतातपादाब्जरजः पवित्रीकृताः, पुनः किं विशिष्टाः ? जितस्वर्नगरैकलक्ष्म्यः - निर्जितनाकशोभा, के कमिव ? यथा कलाधरस्य - चन्द्रस्य, करा: - किरणाः, चकोरमभिनंदति ।
१८.
न मा० । दूत ! या पुरी अयोध्या कल्याणसालच्छलतः - स्वर्णप्राकारमिषेण, इति स्मयात् - गर्वात्, वलयं - कटकं, बिर्भात - धारति । इतीति किं ? जगत्यां - विश्वे, क्वापि - कुत्रापि मादृशी - मम सदृशी, पुरी - नगरी नास्ति । सा पुरी कोशला इदानीं - अधुना तादृगेवास्ति तत्स्वरूपैवास्ति । किं विशिष्टा ? शिवाढया - मंगलपूर्णा ।
.
१६. नितांत० । हे दूत ! नितांतबंधुप्रणयप्रदीपः - अत्यर्थस्वजनप्रेमदीपः, तेजो बिभत्त । किं विशिष्टं तेजः ? तमोहारि - ध्वान्तहरं, पुनः किं विशिष्टं ? दिक्षुआशासु, चरिष्णु-चरणशीलं कस्मात् ? निरंतरस्नेहभरात् - परिपूर्णप्रेमातिशयान् ! दीपपक्षे - स्नेहस्तैलं । अतः परं - एतस्मात् दिवसादारभ्य इहास्मिन् प्रणयप्रदीपें, खेदवातः - खेदानिलो, मा भूत् - माऽस्तु । इति द्विभंगोन्वयः ।
२०. नीतोह ० । हे दूत ! अहं तु पुनः, इदानीमस्मिन्नवसरेऽयोध्यां - कोशलां, एतुंआगंतु, न विभवामि न शक्नोमि । किं विशिष्टोऽहं ? तातेन - ऋषभस्वामिना, अहमिद्रत्वं - स्वतंत्रस्वामित्वं नीतः - प्रापितः । एतद् मम हृदयं - मनः, सोत्कंठंसौत्सुक्य, आस्ते - तिष्ठति । कयोरिव ? रथांगनाम्नोरिव । यथा चक्रवाकीचक्रवाकयोर्हृदयं, हीति खेदे, रजन्यां सोत्कंठं आस्ते । इति त्रिभंगोन्वयः ।
२१. किं दूत ! । हे दूत ! किमिति वितर्के, त्वं साकूतं - साभिप्रायं यथा स्यात् तथा, इह - मत्समीपे, आगतोऽसि । वा - अथवा, मम भ्रातुः - भरतस्यारिः - शत्रुः, बलाढ्यः - बलवान् किं वर्त्तते । दृष्टान्तमाह । दावाग्निः - वनवह्निः, अरण्यदाहेवनज्वालने, शक्तोऽपि—समर्थोऽपि, समीरणस्य - वायोः, सारथ्यं-साहाय्यं ईहेतअभिलषेत् । इति त्रिभंगोन्वयः ।