________________
४१६
भरतबाहुबलिमहाकाव्यम्
बलात् क्षिप्तोम्बरे । च- पुनः अस्मादंबरात् पतन् धृतः । किं कुर्वन् ज्यायान् ? विनिर्यन्मदवारिधारं-निर्गच्छद्दानजलधारं गजं आरुह्य, सलीलं -सक्रीडं यथा स्यात् तथा, चरन् - व्रजन् ।
१०. श्रीतात ० । हे दूत ! कच्चिदिति प्रियप्रश्ने । तस्य - भरतस्य, भद्र - कल्याणमस्ति । तस्य कस्य ? श्रीतातहंसेन - श्रीवृषभस्वामिसूर्येण यो वह्निरिव स्वे पदे न्यधायिन्यवेशि । किं विशिष्टेन ? शमंगतेन - शान्ति प्राप्तेन । पुनः किं विशिष्टेन ? विदूरं - विप्रकृष्टं विमुक्ता - उज्झिता, अस्त्राण्येवरुचः - कांतयो येन, असौ, तेन । किं विशिष्टो भरतः ? उरुतेजा: - महाप्रभावः ।
११. न्यवेशि० । हे दूत ! तातेन - श्रीवृषभस्वामिना, अस्य - भरतस्य, भुजे - दोर्दंडे, या लक्ष्मीर्न्यवेशिं-आरोप्यत । केव ? सस्यराजीव । यथा सत्क्षेत्रभूम्यां - प्रधानक्षेत्रवसुधायां, धान्यराशिविधीयते । सा लक्ष्मीः सस्यराजी, अधुनेदानी, नीतिवृष्ट्या–न्यायवर्षणेन, अस्माद् - भरताद्, ववृधे - वृद्धिमासदत् । कस्मात् ? शात्रवावग्रहशक्तिनाशात् वैरिमेघान्तरायवलध्वंसात् ।
१२. परस्प० । हे दूत । आवयोरन्तरे - मध्ये, विदेशः पतितोऽस्ति । कयो किमिव ? अक्ष्णोरन्तरे नक्रमिव । किं कुर्वतो ? परस्परां - अन्योन्यां, ईहां स्पृहां, आवहतोः - धरमाणयोः । किं विशिष्टयोः ? समानसौहार्दयुषोः– सदृशमैत्र्यभाजोः । पुनः किं विशिष्टयोः ? प्रेमोद्रयोः - प्रणयक्लिन्नयोः । परस्परामिति प्रयोगो नैषधे- परस्परोमर्पित हस्ततालमिति ।
१३. पुराच० । हे चर! अहं भ्रातरमंतरेण-बांधवं विना, मुहूर्तमपि स्थातुं न शशाक—न समर्थोऽभूवं । कथं ? पुरा - पूर्व, मम दृष्ट्याऽधुना उपोष्यतेउपवासः क्रियत एव । भ्रातुर्दर्शनं विनेति शेषः । ततः - तस्माद्धेतोः, मे - मम, दिवसाः व्यर्थाः - निः फलाः, प्रयांति - व्रजन्ति । इति त्रिभंगोन्वयः । शशांकेति 'ब' उत्तमवचनं ।
१४. सा प्रीति० । हे दूत
!
मया सा प्रीतिः - स प्रणयो नो अंगीक्रियते नो प्रतिपद्यते । सा का ? किल इति निश्चयेन, यस्यां प्रीतौ विप्रयोगो - विरहो, जायेत-भवेत् । यदि आवां - भ्रातरौ विप्रयुक्तौ - वियोगिनो, जिजीविवप्राणान् दधिव, तदा प्रीतिर्नावयोविभावनीया- न ज्ञातव्या । किंतु हियतो, रीतिः - प्रकृतिः, चिन्त्या | पंचभंगोन्वयः । जिजीविवेत्यत्र. 'णबुत्तमपुरुषस्य' द्विवचनं ।
१५. ह्रत्क्षेत्र० । हे दूत ! नौ - आवयोः, प्रीतिबीजैः अन्योन्यसंपर्कपयोदवृष्टया