________________
पञ्जिका (सर्ग २) ..
४१५ ३. आसी० । अपीति कोमलामंत्रणे । हे दूत ! तव एतावत्-पर्यन्तं, अखंडमार्गे
अवच्छिन्नप्रयाणेऽध्वनि, स्वागतं-सुखेनागतं, आसीतू-बभूव ? किं विशिष्टस्य तव ? अयोध्यागतस्य-कौशलाय आगतस्य । च-पुनः, तवागमादिदं, मे-मम, मनः तृप्त-सन्तुष्टं। कस्येव ? तृषातुरस्येव । यथा तृषापीडितस्य जलावलोकात्-पानीयदर्शनात्, मनस्तृप्यति । इति त्रिभंगोवन्यः । नितांत । तृप्तेनिदानमाह । हे दूत ! त्वमद्य अस्मदीयं-आस्माकीनं, चित्तंअन्तःकरणं, बंधुप्रवृत्या-भरतादीनां किंवदन्त्या, सुखय-प्रीणय । किं विशिष्टं चित्तं ? नितांत-निर्भरं, तृष्णया-लिप्सया, आतुरं-व्याप्तं, मिलनायेति शेषः । धाराधरवारिधारा-वारिदजलधारा, दूरेऽस्तु-दवीयसी स्तात् । गजिरेववारिदध्वनिरेव, सारंग-चातकं, सानंदति-प्रीणाति । इति त्रिभंगोन्वयः ।
५. तास्ता: । हे दूत ! तास्ता:-वक्षमाणाः, इति-अमुना प्रकारेण, समस्ताः
समग्राः बाललीला:-कुमारावस्थाक्रीडाः । नो-अस्माकं, अदो मन:-चित्तं, सोत्कण्ठं-सरणरणरकं, आतेनु:-चक्रं : । का इव ? विध्यगिरेः क्रीडाभुव इव यथा विंध्याचलस्य क्रीडाभुवो, दंताबलानां-गजानां, दूरगानां-दूरवत्तिनां, मनः सोत्कंठं वितन्वंतीति द्विभंगोन्वयः ।
६. यस्यास०। हे दूत ! यस्य-भरतस्याहमेवाज्येष्ठतया-लघिष्ठतया, आसं
अभूवम् । स बंधु:-भरतो, मयाद्य दृष्टः। किं विशिष्टो भरतः ? सबंधु:सभ्रातृकः । कस्मात् ? त्वदर्शनात् । हि-यतः, पयोदकालः-प्रावृट्समयः,
शतर्ह दः-विद्य तो दर्शनाद्-अवलोकनात्, वेद्यो-ज्ञेयः । इति त्रिभंगोन्वयः । ७. एनं भु० । हे दूत ! बाल्ये अहमेनं भरतं, भुजाभ्यां-बाहुभ्यां, अपसार्य
दूरीकृत्य, प्रसह्य-हठात्, तातांक-पितुरुत्संगं, दूरादेत्य निषण्णः-स्थितः । तातेन-वृषभध्वजेन, इत्यहमत्यंतं भृशमहं निषिद्धो-निवारितः । किं कृत्वा ? प्रसाद्य-प्रसन्नीकृत्य । इतीति किं ? हे बाहुबले ! ते-तवायं भरतो, ज्येष्ठोअग्रजो, भ्रांता-बान्धवों भवतीति त्रिभंगोन्वयः ।
८. हठाद०। हे दूत ! मया अस्य-भरतस्य, हस्तादीक्षुयष्टी, हठादपास्ता
बलात्त्याजिता किं कुर्वतोऽस्य ? काम-अत्यर्थं, रुदतो-रोदनश्रवणानन्तरं, तातैः-वृषभस्वामिभिः, स्वयमात्मना, एत्य-आगत्य, तस्याः-ईक्षुयष्टेः,खंडंशकलं, विधाय-कृत्वा, नौ-आवाभ्यां, प्रत्यर्पितं-प्रतिदीयतेस्म। किमिव ? अवनेः खंडमिव । इति द्विभंगोन्वयः ।
६. गजं वि० । हे दूत ! कदाचिद् मया ज्यायान्-भरतः, उपादाय हठादपास्तो