________________
४१४
भरतबाहुबलिमहाकाव्यम्
विलोकितुं - द्रष्टुं
न क्षमे न कस्मादिव ?
समर्थो भवामि, मया स राजा किं- कथं, तीव्रतेजसो - दुःसहमहसो ज्वलत्कृशानोः
ईर्यो - वाच्यः ।
यथा ज्वलदग्नेः प्रकंपितः । अथवात्र षष्ठी चिन्त्या । दर्शनेन सह संयोज्या अत्र त्रिभंगोन्वयः ।
७६. भरत० । चारु-मनोज्ञं यथा स्यात् तथा भरतनृपतिचारः - प्रथमच क्रिसंदेशहारी, पाणी - हस्तौ संयोज्य - योजयित्वा क्षितिपति - राजानं नत्वा बिधिवत् - विधिपूर्व, अवनिनाथस्याग्रतो - बाहुबलेः पुरस्तात्, संनिविष्टः - स्थितः । किं विशिष्टं राजानं ? अत्यंतपुण्योदयाढ्यं - अत्यंतधर्मोदयसंपूर्णं । हि यतो, विधिज्ञाः क्वचिदपि प्रत्यनीकादावपि मार्गं नैव लुंपतीति द्विभंगोन्वयः ।
इत्थं श्रीकविसोमसोमकुश लाल्लब्धप्रसादस्य मे, श्रीनाभिक्षितिराजसूनुतनयश्लोकप्रथा पंजिका । नैकुण्यव्यवसायिपुण्य कुशलस्याऽस्याऽरविंदोद्गता, सद्वृत्तोल्लसदक्षरार्थकथिनी विश्वावदास्तां चिरम् ॥
इति श्री भरतबहुबलि महाकाव्ये पंजिकायां भरत दूतागमो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः -
अथ दूतवाक्योपन्यासं विवर्णयिषुः कविद्वितीयसर्गमारब्धुमुपक्रमते
१. अथाग्र० । अथ - अनन्तरं एष दूतो विवक्षुरपि वक्तुमिच्छुरपि किञ्चिन् न वक्ति । किं विशिष्ट एष: ? बाहुबलेऽग्रतो निविष्टः स्थितः । पुनः किं विशिष्ट: ? एतस्य - राज्ञः, तेजोभिः - प्रभावः, विघूर्णितात्मा - विभ्रान्तचित्तः । हियतो, महोभिः - तेजोभिः, नृपाः - राजानः, अविलंघनीयाःअनुल्लंध्या भवंति ।
आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ — इत्यनेकार्थसंग्रहे । इति द्विभंगोन्वयः ।
२. न किंचि० । राजा न किंचिद् उक्तवंतं दूतं अवेक्ष्य - विचार्य, जगाद - वदतिस्म । किं विशिष्टो राजा ? विदिताशयार्थः - विदिताभिप्रायहेतुः । हि-यतो, विचक्षणाः- पंडिताः, स्वांतगतं भावं - हृदय स्थितमभिप्रायं सर्वं समस्तं मुखेन दृष्ट्या विदंति - जानंति । इति द्विभंगोन्वयः ।