________________
४१३
पञ्जिका (सर्ग१) .. ७२. तताय । पुनः किं विशिष्टं राजानं ? संश्रितश्रियं-आश्रितलक्ष्मीकं,
कामिव.? सुधर्मामिव-वासवसभामिव, पुनः किं विशिष्टां सभां? ततायतांविस्तीर्णदीर्घा, पुन: किं विशिष्टां ? सर्वतश्चतुरस्र, समां-अविषमां, उपमीयते-द्यामिव आकाशमिव । पुनः किं विशिष्टं राजानं ? सरत्नचामीकरभित्तिसंक्रमात्-मणिखचितसुवर्णभित्तिसंक्रांतितो, धृतकमूत्ति-धृतैकशरीरं,
बहुमूर्तितां गतं-भूरिप्रतिबिंबतां गतं-प्राप्तं। ७३. अपूर्व०। पुनः किं विशिष्टं राजानं ? महामृगेन्द्रासनं-महासिंहासनं,
अधिष्ठितं-अध्यासीनं । कमिव ? अपूर्वपूर्वादि-नवीनोदयाचलं, अधिष्ठातारं अंशुमालिनं-आदित्यमिव, किं कुर्वतं ? उद्दीपितसर्वदिग्मुखैः-उत्तेजितसर्वाशाननः, महोभिस्तेजोभिः, दुरालोकं-दुःप्रेक्षं, वपुः-शरीरं, अलं-अत्यर्थं
बिभ्रतं-दधानं । ७४. मिमान। पुनः किं कुर्वाणं ? नृपोपरि-बाहुबलेरुपरिष्टात्, सितातपत्र
च्छलत:-श्वेतछत्रमिषात्, यशः-कीति, दधानं-धरंतं । किं विशिष्टं यशः ? सुधाब्धिडिंडीरभरानवस्करं-क्षीरांभोधिफेनातिशयशुद्धं । उत्प्रेक्षते-अन्तर्मध्ये, न मिमानं-न मान्तं, अत एव बहिर्यातमिव-निर्गतमिव । पुनः किं
विशिष्टं यशः ? एकतां-एकीभूतत्वं, गतं-प्राप्तं, कथं ? उच्चकैः-अत्यर्थम् । ७५. किमुर्व० । किं विशिष्ट राजानं ? विलासिनीभिः-वारवधूभिः, उद्वेल्लितं
आन्दोलितं, चामरोभयं-चामरयुगलं, यस्मासौ, तं । किं कुर्वतीभिर्विलासिनीभिः ? इत्यमुं वितर्क-विचारं, ददतीभिः-अर्पयंतीभिः । इतीति किं ? उर्वशीभि:स्वर्वेश्याभिः, किमेनं राजानमभ्युपास्तुं-से वितुं, आगतं । अत्र भावे क्तः । किं विशिष्टाभिः उर्वशीभिः ? सुहृदा-मित्रेण, बलद्विषा-इन्द्रण, प्रहिताभिःप्रेषिताभिः ।
७६. प्रकाम० । किं विशिष्टं राजानं ? प्रकाम-अत्यर्थ, अंसार्पितहारहारिणं
स्कंधालंबितहाररमणीयं, वा प्रकामं-प्रकृष्टाभिलाषं, उपमीयते-सनिर्भरं मेरुशलमिव । पुनः किं विशिष्टं ? उन्नतप्रथं-उत्तुंगप्रख्यानं, पुनः किं विशिष्ट राजानं ? यशःप्रतापाभ्यां अभिहतौ-तिरस्कृतौ, इन्दुभास्करी-शशिसूर्यो,
ताभ्यामाश्रितं-सेवितं, कस्मात् ? स्वकर्णार्पितकुंडलच्छलात् । ७७. भुजद्व० । उत्प्रेक्षते-भुजद्वयीशौर्यमिव-भुजयुगलपराक्रममिव, अक्षिगोचरं
दृष्टिविषयं, चकार । अंगिनं-मूर्तिमंतं, महोत्सवमिव । उन्नतं मान-उच्चमहं
कारमिव । इति सप्तकुलकार्थः । ७८. स दर्श० । स-दूतः, क्षोणिपतेः-राज्ञो दर्शनात्, प्रकंपितः सन्, इति अतर्कयत्
विचारयामास । इतीति किं ? अहं यं राजानं लोचनाभ्यां नेत्राभ्यामपि,