________________
पञ्जिका ( सर्ग १ )
४०७
ध्वनी प्रवृत्ते - भरतरूपमेघवाद्यगर्जारवे प्रवर्तिते सति शरभीभवन् - अष्टापदीभवन् च- पुनः अयं अभिमानिनां प्रथमः मानिनां मुख्यः, स्मयं - गर्व, न मोक्ष्यते ।
३७. चरो० । ततस्तदनन्तरं चरो- दूतो, हृदा - मनसा, इति - पूर्वोक्त, विचिन्त्य - विचार्य, एषां जनानां पुरतो - अग्रतः, च - पुनः, किंचिद् नो जगादनोक्तवान् । हि यतः, वाग्मिन: - पंडिताः, कर्णान्तिकटु-श्रवणान्तकटुकं, प्रियंहृद्यं वचो - वचनं निशम्य - आकर्ण्य, क्वचित् - कुत्रापि वाचा - भाषणेन, न वदंति - न कथयंतीति द्विभंगोन्वयः ॥
३८. सुगेय० । मृगाङ्गनाभिः - हरिणस्त्रीभिः
उदग्रकंधरं - उच्चग्रीवं यथा स्यात् तथा, क्वचित् - कुत्रचित् प्रदेशे स चरो विलोकितः - दृष्टः । किं विशिष्टाभिः मृगाङ्गनाभिः ? सुगेय कृष्टाभिः - शोभनगानाकर्षिताभिः, शालिगोपिभिः. कलमरक्षिकाभिः, स दूतः सविभ्रमं - सविलासं, अपि- पुनः, ईक्षितोऽवलोकितः । किं विशिष्टाभिः शालिगोपिभिः ? विभ्रमवामदृष्टिभिः - कटाक्षाभिरामविलोनाभिः । अत्र द्विभंगोन्वयः ।
४०.
३६. स राज० । स दूतः पुरंधिभिः - स्त्रीभिः, तरंगितामोदभरः - कल्लोलितप्रीतिभरोऽनेकशो - बहुशो, ग्रामपुराणि व्यलंघत - अतिक्रामतिस्म । किं विशिष्टाभिः पुरंधिभिः ? अनंगभूपतेः -- कामभूपस्य, राजधानीभिः - वासनगरीभिः । पुनः किं विशिष्टाभिः ? पूर्वस्य - प्रथमस्य रसस्य शृंगाराख्यस्य, केलिसद्द्मभिः - क्रीड़ावसतिभिः । पुरंधिशब्दस्य ईपागमो वा ।
1.
चरः पु० । अयं चरः पुरो - अग्रे, गन्तुं त्वरां - शीघ्रतां ऐहत - अवांछत् । उत्प्रेक्षते - अंगवान् - मूर्तिमान्, महीधरस्य - भरतस्य उत्साहो - जिगीषाभिलाष इव । अर्थकारिणः - कार्यविधायिनः, क्वचित् - कुत्रापि पुरुषाः न हि त्वरंते ? अपि तु त्वरंत एवं । स्वामिपुरः - प्रभोरग्रे, विलंबनं न हिताय । इति चतुर्भगोन्वयः ।
४१. विलंघि० । चरः पुरीप्रदेशान् - तक्षशिलोद्देशान्, उपेत्य - आगत्य, दृशो:
नयनयो:, उत्सवं संप्रापयत् - अनीनयत् । किं विशिष्टः चरः ? विलंघिताध्वाअतिक्रान्तमार्गः, कैः ? कतिचिदुद्दिनैः । किं विशिष्टान् पुरीप्रदेशान् ? जितनाकविभ्रमान् - जितस्वर्गशोभान् पुनः किं विशिष्टान् ? सरः सरित्काननसंपदांचितान्-तटाकनदीवनशोभया भूषितान् ।
४२. पुरी० । ततस्तदनंतरं तस्य - भरतदूतस्य, हयैः - अश्वैः, मुदः तरंगिता:कल्लोलिताः । अयं अन्वयः कलापकेनावसातव्यः । किं कुर्वद्भिः हयैः ?