________________
४०६
भरतबाहुबलिमहाकाव्यम् ३०. न सांयु० । हे दूत। तु-पुनः, असौ बाहुबलिरहनिशं एवं विचिन्तयति ।
एवमिति किं ? आहवे-संग्रामे, मम सांयुगीनो-ममाग्रे रणाय साधुतया स्थाता न कश्चिदस्ति । अतः क्षितीशो-बाहुबलिः, समागतं रणं क्षणीकृत्यउत्सवीकृत्य मनुते । किं विशिष्ट: क्षितीशः ? महाभटैर्वृतः-संयुक्तः। इति त्रिभंगोन्वयः ?
३१. अयं वि० । हे दूत ! अयं राजा, विपक्षान्-शत्र नु, नु इति वितर्के, तृणवन्
मन्यते, तु-पुनः विपक्षरयं नपो गिरि:-पर्वतात् अतिरिच्यते । अयं नपो रिपुसंचयं-वैरिसमूह, धुनीते-कंपयते । अयं नृपः कैश्चिद् वैरिभिः सुरशैलवत्
मेरुगिरिवन् न धुतो-न कंपितः । इति चतुभंगोन्वयः । ३२. अनेन । हे दूत ! यदा अनेन राज्ञा-बाहुबलिना, रजनीमणीयितं-चंद्रायितं,
किल इति संभाव्यते, तदा-तस्मिन् समये, अन्यभूपैः-इतरराजभिः, तारकायितं नक्षत्रवदाचरितं । अतः कारणात् नृपः अस्य बाहुबलेनिदेशः-आज्ञा, न लङ घ्यते-नातिक्रम्यते। तु-पुनः अयं राजा कस्यचिद् अन्यभूपस्य निदेश
आज्ञां, न दधातीति चतुर्भगोन्वयः । ३३. विधेरि०। हे दूत ! अस्माद्-बाहुबलेः सकाशात्, अहितैः-शत्रुभिः,
हितैः-मित्रैः पुनः फलानि अलभ्यंत-प्राप्यंत। किं विशिष्टः ? कलिक्रमाथिभिःक्लेशांह्रिसमीहकैः, कस्मादिव ? विधेरिव । यथा' विधिविधातुः सकाशात् फलानि लभते । अत्र प्रभुः स एव स्यात् यतो-यस्मात्, विशेषतोऽनुत्तर:
श्रेष्ठः फलाफलावाप्तिर्भवेद् । इति चतुर्भगोन्वयः । ३४. स कि न० । हे दूत ! स अत्र-लोके, किन्नरो न विद्यते । च-पुनः, स अत्र
मानवो नास्ति । कोपि विद्याधरपुंगवोऽत्र स न वर्त्तते, येन नपार्षभे:बाहुबलेर्यशः कर्णेषु न दधे-न धृतं । किं विशिष्टं यशः ? शरच्चंद्रकरातिसंदरंशरत्कालीनेन्दुकिरणातिमनोज्ञं । इति चतुर्भगोन्वयः। .
३५. गिरं ज० । तेन-दूतेन, इति-पूर्वोक्तां, जनानां, लोकानां, · मानशालिनी
अहंकारवतीं, गिरं-वाणी, निशम्य-श्रुत्वा, हृदा-मनसा, व्यतर्यंत-व्यचार्य्यत । के विचारं चकारेत्याह-मे-मम, प्रभोः-स्वामिनो भरतस्य, बलिनोऽपिबलवतोऽपि, बलं-पराक्रम, महीभृति-बाहुबलौ, वृथा मा स्यात् । कस्येव ? करिणीपतेरिव । यथा करिणीपतेः-हस्तिनो बलं, महीभृति-पर्वते वृथा स्यात् । इति त्रिभंगोन्वयः।
३६. मदीय० । अयं-राजा, किल इति संभाव्यते, भटवतो-वीरैः संयुक्तो,
रणेऽसून्-प्राणान्, मोक्ष्यते-त्यक्ष्यति। किं कुर्वन् ? मदीयभूपांबुदतूर्यजित