________________
पञ्जिका ( सर्ग १ )
४०५
पविप्रथाहताः- यंद्भुजदंड वज्रप्रभात्रासिताः, महीभृतो- राजानः पर्वताश्च, हिनिश्चितं, सागरमाश्रयन्ति । इति द्विभंगोन्वयः ।
२४. अमुष्य० । हे दूत ! अमुष्य-बाहुबले:, नामापि विरोधिनां वैरिणां, भूर्धनिमस्तके, निःप्रतिक्रियं - प्रतीकाररहितं, शूलकृत् - शूलरोगकारि बभूव । वा निःप्रतिक्रियमिति क्रियाविशेषणं । हे दूत ! नो- अस्माकं प्रणिपाततः प्रणामतः परं - अन्यत्, रसायनं -औषधं, तस्य अखिले महीतले नास्ति । इति द्विभंगोन्वयः ।
प्रभोः - स्वामिनः, विरोधिमस्तकस्य
२५. भुजंग० । हे दूत ! नागराट् - शेषनागः, नो - अस्माकं नृपं एत्य - आगत्य, इति जगाद - अकथयत् । इतीति किं ? हे राजन् ! मया भवान् रसासहस्र े :जिह्वादशशतैः, उपगीयते - स्तूयते । किं कुर्वन्तं नृपं ? भुजंगराजं - नागाधिपं, वसुधैकधूर्वहं - धरित्र्येकभारघरं, भुजस्य- बाहोः, दायादं - स्पर्द्धक, अवेक्ष्यविचार्य्य, प्रयातं - प्रयाणं कुर्वाणं । अत्र द्विभंगोन्वयः ।
२६. अमुष्य० । अमुष्य - राज्ञः, सैन्याश्वखुरोद्धतं - कटकतुरगखुरोड्डीनं, रजो - रेणुः, द्विजानां पति-चन्द्र, सकलंक - सलाञ्छनं, आधित-चकार, आरातिमनोपिशत्रुचित्तमपि, अहर्निशं सकंपं चकार । नदीनां वरं समुद्रमपि, पंकिलंकर्दमाढ्यं चकार । किलेति श्रूयते ।
२७. स्वतात । हे दूत ! वयं हृदा - मनसा, एवं अमुना प्रकारेण, परितर्कयाम हे - विचारयामः । एवमिति किं ? महेन्द्रमुष्ट्या - बाहुबलि मुष्टिना, अयं सुमेरुगिरिः चूर्णतां न गमितः - क्षोदत्वं न प्रापितः । किं विशिष्टः सुमेरु: ? स्वतांत जन्मोत्सववारिणाचितः - श्री आदिदेवजन्माभिषेकजलेनार्चितः । किं विशिष्टया महेन्द्रमुष्ट्या ? शतकोट्यहीनया - वज्राधिकया । अत्र द्विभंगोन्वयः ।
1
२८. जगत्त्र ं । च-पुनः, जगत्त्रयी - त्रैलोक्यं यस्य - बाहुबलेः, कीर्तिमल्लिकांयशोमालती, शिरसा - मस्तकेन, अजस्र - निरंतरं, विकाशिनीं - विकस्वरां, वा विराजिनी, दधाति - धारयति । स एक वीरो भुवनत्रये अफलं-फलरहितं, धनु: - चापं, न हि बिर्भात न धरति । क इव ? कंदर्प इव । यथा कंदर्प : अफलं धनुर्न बिर्भात । इति त्रिभंगोन्वयः ।
२६. महाप्र० । हे दूत । द्विषद्बलैकता, अमुष्य-बाहुबलेः, तेजः कनकं भवति, कैः ? अनून:- अहीनैः, अमल प्रभाभरैः । कुतः ? रसेन्द्रयोगतः - पारदसंयोगात् । पंक्षे-रसेन्द्राः-राजानः, तेषां योगः - उपायस्ततः । कथंभूतं द्विषद्बलैकताम्र ? महाप्रतापानलतापितं - गुरुतेजोवह्निसंतप्तम् ।