________________
४०४
भरतबाहुबलिमहाकाव्यम् १७. भुजद्व० । जनता-जनसमूहः, तं चरं, भुजद्वयोन्मूलितभूरुहावलिं
बाहुद्वयोत्पाटितवृक्षावलिं, निभाल्य-दृष्ट्वा, असौ भूरुहावली कि हस्तिभिराहता-उन्मूलिता-इति वदन्तं तं चरं ऊचे-कथितवतीति, हे चर! नो- अस्माकं, भटैः असौ वृक्षावली, अरातिकांक्षितैः-वैरिवाञ्छितैः साकसाढे, अभंजि-भग्ना, इति त्रिभंगोन्वयः ।
. १८. सुधारस० । हे चर ! त्वं मुष्टिभिः हतद्रुमस्कन्धनिपातितानि-हततरुस्कंधेभ्योऽधः
पातितानि, सुधारसस्वादुफलानि-अमृतरसस्वादवंति फलानि, विलोकय-पश्य । किं कृत्वा ? नो-अस्माकं भटैर्वृक्षस्यातीवोत्तुंगत्वात् करानवापानि-हस्तदु:प्रापानि, विमृश्य-विचार्य, उद्भटैरुद्धतैः किमसाध्यमस्तीति द्विभंगोन्वयः ।
१६. हतेभ० । हे दूत ! त्वं इतः-अस्मात् प्रदेशात्, तदुत्खातरदान-तैर्भटैः
उत्खाता-उद्धृताः ये दंतास्तान्, क्षितौ पतितान् इति शेषः, निभालय-विलोकय ये भटाः हतेभकुंभस्थलजन्ममौक्तिकैः-विदारितहस्तिकंभोत्थमुक्ताफलैः कृत्वा। इह-अस्मिन् वने, प्रियावक्षसि हारं आदधुः-चक्रः । उत्प्रेक्षते-औजसां-बलानां, यशोन्यास मिव-कीर्त्यारोपमिव । द्विभंगोन्वयः ।
२०. इतोपि० । हे चर ! त्वं इतोपि, दोर्दडदलीकृतं-भुजदंडकर्करीकृतं, घन:
मुद्गरैः, अभंगुरं-अभंजनशीलं । एतादृशं शिलातलं उद्भटैकदत्तैः वीक्षस्व । किमिव ? विरोधिनां-वैरिणां, वक्षो-हृदयमिव । हि-यतः, अविक्रमः-निर्बलैरिद अभेद्यं-अविदार्य, अच्छेद्यं-अद्विधाकावें ।
२१. शरैरना० । हे चर !, नो-अस्माकं, धनुर्धरैः शरैविद्धं-विदारितं, इमं
द्रुमावलिस्कंधं त्वं पश्य । कथंभूतैः शरैः ? अनावृत्तमुखैः-अवालिताननैः, पुनः कथंभूतैः ? मनोतिगैः-मनसातिचरितः, कथंभूतः धनुर्धरैः ? अनन्यविक्रमः। हि-यतः, महौजसां-अधिकबलानां, ओजसि-पराक्रमे, कोऽपि विस्मयः ? न कोपीति शेषः ।
२२. सलील । हे दूत ! त्वं इति-उच्यमानं, अनेकधा-बहुधा, भटानां-वीराणां,
बलं दृष्टिगोचरं-अक्षिविषयं कुरु। इतीति किं ? महाबल:-बलाधिक: वीरैः, करैः-हस्तः, सलीलं यथा स्यात् तथा उत्पाट्य गिरिगजेन्द्रवत् इतस्ततोनीत:-प्रापितः । कैः क इव ? गजैः अनोकह इव सलीलमुत्पाट्य इतस्ततः नीयते । इति त्रिभंगोन्वयः ।
२३. महाभु० । हे दूत ! नो-अस्माकं, स प्रभुरीदृशैः महाभुजैर्वृतो-युक्तो,
वज्रिणा-इन्द्रेण, मनसाऽपि दुःप्रधर्षो-दुःसहोऽस्ति । स कः ? यदीयदोर्दण्ड