________________
पञ्जिका (सर्ग १)
४०३ ११. स वेप० । तु-पुनः, स दूतः, सरसीजले-तटाकोदके, वेपमानं-कंपमानं,
विधु-चन्द्र, विलोक्य, मुहुः-असकृत्, इतिवादिनी:-एवं ब्रु वाणाः; कांता:नारीय॑लोकत-पश्यतिस्म। इतीति किं ? हे शशांक ! त्वं राजा असिभवसि । हे चन्द्र ! त्वं प्रभोर्बलात् मा विभेषि-मा कंपस्व । न:-अस्माकं, प्रभुः-स्वामी, सकृपः-सदयोस्ति, अपराधं विना न हंतीति चतुर्भगोन्वयः । राजा तु पार्थिवे निशाकरे प्रभौ शक्र -इत्यनेकार्थसंग्रहे ।
१२. क्वचित् । स दूतः क्वचित्-प्रदेशे, मृगीयूथं वीक्ष्य-दृष्ट्वा , इति अतर्कयत्
एवं व्यचारयत् । किं विशिष्टं मृगीयूथं ? विस्फाररवेपि-धनुषां टंकारशब्देऽपि, असंभ्रमं-असत्वरं, कथंभूते विस्फाररवे ? कर्णांतिक-कर्णसमीपं, गतेपिप्रातेऽपि, अत्रापेः पुनरादानं अतीवसमीपख्यापनार्थं । किं कुर्वत् ? यदृच्छयास्वेच्छया, अयत्-भ्रमत्, इतीति किं ? आर्षभीणां-आदिदेवपुत्राणां, विषयेषुदेशेषु, शाश्वती कृपा । .
१३. विकस्व० । च-पुनः, तस्य-दूतस्य, सरसी-तटाकः, दयितेव-वल्लभेव, मुदे
हर्षाय, अभवत्-बभूव। कथंभूता सरसी ? विकस्वराम्भोजमुखी-विकचकमलानना, पुनः कः ?,परिस्फुरत्विसारनेत्रा-चलन्मीननयना, पुनः क० ? रथांगनामस्तनराजिनी-चक्रवाकरूपस्तनशालिनी, पुनः ? चलत्तरंगनाभिः ।
१४. श्रमाच्छ
श्रमच्छिदे० । समीरण:-वायुभिः, तस्य-दूतस्य, श्रमच्छिदे-प्रयासच्छेदाय, अभूयत-बभूवे। किं वि० समीरणः ? विरुद्ध पुष्पवल्लताप्रसक्तैः-विरुद्धा व्यभिचारादिना, पुष्पवती-रजस्वला, एतादशी लता, तत्र प्रसक्तैः-प्रसंगवद्धिः । पक्षे-विरुद्धा-विभिः-पक्षिभिः, रुद्धा-व्याप्ता, पुष्पवत्-कुसुमवत् । पुनः किं वि० ?श्रितसारिणीजलैः । पुनः किं वि० ? अवेगचरैः-मंदैः । हि-यतः, सत्तमाः-उत्तमाः, क्वचित् क्रम-परिपाटी न लुपंति-नोल्लंघयंति ।
१५. प्रफुल्ल० । अमुष्य-तस्य दूतस्य, वनं, प्रफुल्लकिंकेल्लिनवीनपल्लवैः
विकस्वराशोकनूतनप्रवालैः सायंतनवारिदभ्रमं-सांध्यमेघभ्रम, आदधे-चक्र । पुनर्वनं श्यामलताभिरंचितं-व्याप्तं सत् दिनेपि, दोषाभ्रम-रात्रिभ्रमं आदधे ।
१६. जनाद् बलं० । चरः पथि मार्गद्रुमेषु-वृक्षेषु, भूभृत्सु च-पर्वतेषु च, बाहुबले टै
भुजाशुगास्त्रैः-बाहुबाणशस्त्रैः कृत्वा, चिन्हितं-अंकितं, जनाद् बलं परिपीयआकर्ण्य, कंपितः-भीतः । हि-यत: सकंटका एव द्रुमाः जनः दुर्गमाःदुरवगाहाः। .