________________
४०२
भरतबाहुबलिमहाकाव्यम् तत् तत् । यशःपक्षे-गवेन्द्रात्-राज्ञः सकाशात् दूरं गच्छतीति तत् । किं कुर्वत् ? पयोमहः-दुग्धतेजो, विगलत्-क्षरत् । यशःपक्षे-विगलत्पयो
क्षरदुग्धमिव, महस्तेजो यस्येति तत् तत् । ५. स सौर० । स दूतः क्वचित्-कुत्रचिद् बाहुबलिदेशे, चरंती:-तृणादनं
कुर्वती:, सौरभेयी:-महिषीरवलोक्य शंकितः-सशंको जातः। किं वि० म० ? असिता:-श्यामाः। उत्प्रेक्षते-यशोभिः सह तनु-शरीरं, जुह्वतांभस्मसात्कुर्वाणानां द्विषां, चिताधूमततीरिव । किं कुर्वतीः ? -वनान्तरेअरण्यान्तः, चरंती:-चलन्तीः।
६. ककुद् । स दूतः, गवीश्वरोदीरितभूभृदाज्ञया-गोपालकथितराजाज्ञया,
निषिद्धयुद्धान्-निवारितकलहान्, ककुमतो-महोक्षान्, दुर्द्धरान्, · वीक्ष्य चकितो-भीतो, विस्मितश्च-अहो एतस्य माहात्म्यम् । किं. कुर्वत; ? क्रुधा
कोपेन, कलि-संग्राम, संदधत:-कुर्वाणान् ।। ७. स गन्धः । स चरः, क्वचित् प्रदेशे,. युवद्वयीः-युवयुवतियुगलानि, निध्याय
विलोक्य, वचोतिगां-वागतीतां, 'मुदं-हर्ष, बभार-धरतिस्म । किं कुर्वती: युवद्वयीः ? गंधधूलीमृगसंश्रिता:-कस्तूरिकामृगसेविताः, शिलाः, निविश्यस्थित्वा, वासांसि-वस्त्राणि, सुगंधीनि-सद्गंधवंति, वितन्वती:-निर्मापयन्तीः ।
८. मुदं० । तेन दूतेन मही प्रियेव फलावहा-सफला, व्यलोकि-दृष्टा । किं
कुर्वाणा ? निजेशितु:-स्वस्वामिनो, मुदं-हर्ष, ददाना-ददती। किं विशिष्टा ? अनवलोकितेतरप्रभुः-अदृष्टान्यभर्तृका, पुनः किं वि० ? प्रभूतांकुरराजिराजिनी-बहुलाङ्कुरश्रेणिशोभिनी । कथंभूता प्रिया ? रोमांचवती।
६. नफल्गु० । स दूतो दिनात्यये-संध्यासमये, इतीरिणः-एवं वादकान्, मान्
मनुजान्, विलोक्य, मुमुदे-जहर्ष । इतीति किं ? अस्य धान्यस्य, सदैवनिरंतरं, क्षितीश्वराज्ञा-बाहुबलिनपाज्ञा, पालिनी-रक्षका वर्तते एव । किं वि० मान् ? गेहं चलितान्-गृहगतान् । किं कृत्वा ? खलेषु सस्य-धान्यं, परिहाय-मुक्त्वा। किं विशिष्टं सस्यं ? नफल्गु-आरक्षकजनरहितं, पुनः
किं विशिष्टं ? निस्तुषं-तुषरहितं । १०. स निर्वृतिः। स दूत: नितिक्षेत्रं-वृत्तिरहितं केदारं, उदीक्ष्य-दृष्ट्वा,
दूरतो-दूरात्, स निर्वृतिक्षेत्रविलाससस्पृहः-सौव्यकलत्रक्रीडनमाकांक्षो बभूव । हि-यतः, सर्वो-लोको, विशिष्टवस्तुनि-प्रधानपदार्थे, ईक्षिते-दृष्टे सति, सराग-रागिणं, जनं क्षणात् स्मरेत्-चिंतयेत् ।