________________
३
प्रथमः सर्गः -
--
पञ्जिका
१. ॥ नमः ॥ अथेति षट्खंडविजयमाधाय स्वपुय्र्यागमनानन्तरे, आर्षभिर्भरतः तक्षशिला महीभुजे - बाहुबलयें, दूतं प्रजिघाय प्राहिणोत् । कथंभूतो भरत: ? स्वपुरीं उपागतः - निजनगरी आगतः । पुनः कथं ० ? भारतभूभुजां - भरतक्षेत्रवत्तराज्ञां, बलात् - हठात् हृतातपत्रो - गृहीत छत्रः । किं वि० दूतं ? वाग्मिनंवाचोयुक्तिपटु, सुषेणनामानमिति शेषः । किं० बाहुबलये ? ततौजसे - विस्तीर्णबलाय, किं कृत्वा ? विमृश्य- विचार्य्य, सचिवैः सहेति शेषः ।
२. ततः स० । स दूतः ततो भरतदेशात्, रिपोः - बाहुबलेः, विषयांतरंदेशान्तरालं, गतः-प्राप्तः सन् विस्मयं दधौ - धरतिस्म । क इव ? वपुष्मान् इव-यथा कश्चित् प्राणी विषयांतरं गतो विस्मयं दधाति । अन्ये विषया: शब्दादय इति विषयान्तरं । हि यतः, रसांतरं - पृथिव्यंतरं गच्छत एव पुरुषस्य अनेकधा- भावविलोकनात् - बहुधा वस्तुदर्शनात्, विस्मयो भवेत् - आश्चर्यं स्यात् । प्राणिपक्षे - अन्ये रसाः शृंगारादय इति रसान्तरं । तत्र गच्छत एव प्राणिनो बहुधाभिप्रायनिरीक्षणात् विस्मयः स्यात् । भवोभिप्रायवस्तुनोरिति ।
३. प्रताप० । स दूतः इति वादिनः - एवं ब्रुवाणान् लोकान्, अवलोक्य - दृष्ट्वा, अधिकं यथा स्यात् तथा विसिष्मिये - विस्मितः, इह-अस्मिन् देशे, तीक्ष्णकरः -श्रीसूर्यः, प्रतापभृत्स्वामिबलाभिशंकितः - प्रतापधारिनृपौजसा पराभूतः, करेण - किरणैः, तमोहरो - ध्वान्तहर्त्ता, परं न तापकारी ।
४. शरच्छ० । स दूतः धैनुकंधेनूनां समूहं वीक्ष्य - दृष्ट्वा, नेत्रे - लोचने, ततानविस्तारयामास । किं० धै० - शरच्छशांकद्युतिपुंज पांडुरं - शरदिंदुकांतिसमूहोज्ज्वलं उपमीयते - महीभर्तुः - बाहुबलेः, अंगं आश्रितं - मूर्तं यश इव । पुनः किं० ० ? गवेन्द्रद्दूरगं - गवेन्द्राः -गोपालाः, दूरगाः - दूरवत्तनो यस्य