SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अपभ्रंश कथा : परिभाषा, व्याप्ति और वर्गीकरण : २२३ कादम्बरी, काचित्पद्यमयी यथा लीलावती, या च सर्वभाषा काचित् 'संस्कृतेन काचित् प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित् पिशाच्या काचिदपभ्रंशेन बध्यते सा कथा। प्रबन्धमध्ये परबोधनार्थ नलाधुपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदेको ग्रन्थिकः कथयति तद्गोविन्दवदाख्यानम् । तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकाएँ वा निश्चीयते तत्पञ्चतन्त्रादिवत्, धूर्तविटकुट्टनीमतमयूरमार्जारिकादिवच्च निदर्शनम्। (पृ० ४६३ ) प्रधानमधिकृत्य यत्र द्वयोविवादः सार्धप्राकृतरचिता चेटकादिवत् प्रवाह्निका। प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचना-अनङ्गवत्यादिवन्मन्थल्लिका। यस्यां पुरोहितामात्यतापसादीनां प्रारब्धनिर्वाह उपहासः सापि मन्थ ल्लिका। __यस्यां पूर्व वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिवन्मणिकुल्या। एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रकादिवत् परिकथा। (पृ० ४६४) : मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्णोते सा इन्दु.. मत्यादिवत् खण्डकथा। समस्तफलान्तेतिवृत्तवर्णना समरादित्यादिवत् • सकलकथा। एकतरचरितात्रयेण प्रसिद्धकथान्तरोपनिबन्ध उपकथा। लम्भाङ्कितामृतार्था नरवाहनदत्तादिचरितवद् बृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः॥ (पृ० ४६५) उपाख्यानमिति । यदाह नलसावित्रीषोडशराजोपख्यानवत्प्रबन्धान्तः । अन्यप्रबोधनाथं यदुपाख्यातं युपाख्यानम् ॥ आख्यानमिति । तथा चाह आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन् । प्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि ॥
SR No.002250
Book TitleApbhramsa Kathakavya evam Hindi Premakhyanak
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherSohanlal Jain Dharm Pracharak Samiti
Publication Year1973
Total Pages382
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy