________________
भोतीर्थस्तुतिः ..
[२९५ ] श्रीसिद्धान्तस्तवनम्यत्रोक्तं किल पुण्यपातकफलं सर्वाङ्गिणां ज्ञानिभिजीवादीनि विचारितानि नव वै तत्त्वानि सम्यक्तया । यं स्वाध्यायरताः पठन्ति मुनयः कर्मक्षयायोद्यताः, तं ध्यायामि विचारयामि विनुवाम्यश्चामि जैनागमम् ॥३॥ अन्वय
यत्र ज्ञानिभिः सर्वाङ्गिणों पुण्यपातकफलम् उक्तं वै जीवादीनि नवतत्त्वानि सम्यक्तया विचारितानि किल कर्मक्षयाय उद्यताः स्वाध्यायरताः मुनयः यं पठन्ति तं जैनागमं ध्यायामि विचारयामि विनुवामि अश्चामि ।
यत्रोक्तमिति-'यत्र' यस्मिन् सिद्धान्ते । 'ज्ञानिभिः ज्ञानम् आगमपूर्वगतबोधनम् अस्ति येषां तैः गीतार्थगुरुभिः । 'सर्वाङ्गिणां सर्वेषां समस्तानां सूक्ष्मजीवादारभ्यानुत्तरवासिसुरपर्यन्तानाम् अङ्गिनां देहिनाम् । पुण्यपातकफलम् ' पुण्यं सुकृतं पातकं पापं दुष्कृतं वा तयोः फलं : विपाकं शुभाशुभकर्मजन्यपरिणामविशेष मित्यर्थः । 'उक्तम् ' भाषितं वर्णितं वा । 'वैः' पादपूरणार्थे । “तु हि च स्म ह वै पादपूरणे" इत्यमरः (३।४।५)। 'जीवादीनि जीवति स्वस्व . योग्यतया इन्द्रियप्रभृतिप्राणान् धारयतीति जीवः आत्मा चैतन्यलक्षणो वा स आदौ प्रथमे येषां तानि जीवाजीवपुण्यपापाश्रवसंवर बन्धनिर्जरामोक्षलक्षणानि । 'नव' तत्सङ्ख्यकानि । 'तत्वानि' मूलतः प्ररूप्याणि । 'सम्यक्तया' सुगमबोधनरीत्या। 'विचारितानि' चिन्ति. तानि प्ररूपितानि वा। 'किलः' वृतान्तार्थे पुनरित्यर्थः । कर्मक्षयाय' कर्मणां ज्ञानावरणीयादिलक्षणानां पापानां क्षयाय विनाशाय । 'उधताः' तत्पराः। 'स्वाध्यायरताः' स्वस्य आत्मनः स्वस्मै