SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धचक्रस्तुतिः ( मालिनी) श्रीसिद्धचक्रसन्माहात्म्यं वर्णयन्नाहविपुलकुशलमाला-केलिगे(गृ)हं विशालाऽसमविभवनिधानं, शुद्धमन्त्रप्रधानम् । सुरनरपतिसेव्यं, दिव्यमाहात्म्यभव्यम् , निहतदुरितचक्रं, संस्तुवे सिद्धचक्रम् ॥१॥ अन्वय निहतदुरितचक्रम् , विपुलकुशलमालाकेलिगेहम् , शुद्धमन्त्रप्रधानम् , विशालासमविभवनिधानम् , सुरनरपतिसेव्यम् , दिव्यमाहात्म्यभव्यम् , सिद्धचक्रम् संस्तुवे ।। विपुलकुशलेति....'निहतदुरितचक्रम्' निहतं नितरां संपूर्णतया वा विनाशितं दुरितानां दुःखानां कर्मणां वा चक्रं मण्डलं येन तद् दुःखसमूहप्रणाशीत्यर्थः। दुःखाभावेऽकुशलं कुतः १ एतदेव ज्ञापयति 'विपुलकुशलमालाकेलिगेहम् ' विपुलं महत्तमं श्रेष्ठ वा यद् कुशलं मङ्गलं निर्वाणमिति यावत् तस्य या माला श्रेणी तस्याः केल्यै क्रीडाय गेहम् सझ मन्दिरं वेत्यर्थः। “गेहं गेहोदवसितं वेश्म सद्म निकेतनम् " ॥४॥ इत्यमरः (२।२।४) । 'शुद्धमन्त्रप्रधानम्' शुद्धाः निर्मलाः कर्ममलदुरीकरणशीलत्वात् शुभाध्यवसायजनकत्वाच्च ये मन्त्राः जपनीयवर्णविशेषाः ॐकारहीकारादिलक्षणाः तैः प्रधान मुख्यं श्रेष्ठ वा अद्वितीयत्वाद् । "मन्त्रो वेदविशेष स्याद् देवादीनां च साधने । गुह्यवादनेऽपि
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy