SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्ध चक्रस्तुतिः [ २८१ ] च पुमान्" इति मेदिनी (१२८।७४-७५ ) । मन्त्रा हि निधीन् आकृषन्ति अत एव यस्मिन् मन्त्रास्तस्मिन् निधयः सन्त्येवैतत् ज्ञापयन्नाह - ' विशालासमविभव निधानम् ' विशाला महन्तः असमाः असाधारणाः ये विभवाः बाह्याभ्यन्तरसम्पदः तेषां निधानम् निधिमिव उत्तमाद्वितीयवैभवस्थानम् इत्यर्थः । सुखाभिलाषिणः सर्वेऽपि वैभवप्रियाः अतोऽग्रे उक्तम् ' सुरनरपतिसेव्यम् ' सुराणां देवानाम् नराणां मनुष्याणां च ये पतयः स्वामिनः शक्राः नृपाच तैः सेव्यम् भजनीयम् । इन्द्रेः नृपतिभिश्व सेवनीयत्वाद् अस्य महि माऽपूर्वः तमेव वर्णयन्नाह 'दिव्यमाहात्म्यभव्यम् ' दिवि स्वर्गे भवं दिव्यम् उपलक्षणात् त्रिलोकव्याप्तं श्रेष्ठं वेत्यर्थः "दिव्यं वल्गु - लवङ्गयोः || ३५७ || भवे " इत्यनेकार्थः ( २२३५७ ) माहात्म्यं महान् अतिशयः उदारो वा आत्मा स्वरूपं महात्मा तस्य भावः कर्म वा माहात्म्यम् " पतिराजान्तगुणाङ्गाद० " ( सि०७।१।६० ) इत्यनेन यणू, महत्वं तेन भव्यं मनोहरम् । 'सिद्धचक्रम् ' सिद्धं प्रसिद्धं श्रीपालमयणादौ तत्कालफलितत्वाद् चक्रं वलयाकार मण्डलम् इति यद्वा ( २ ) संयमसाधनेनाचार्यादयोऽपि सिद्धत्वं प्राप्स्यन्तीति भाविनि भूतोपचाराद् तेऽपि सिद्धाः, सिद्धानां चक्रं वलयं तन्नामयन्त्र विशेषमिति यावत् । (३) सिद्धस्य' सिद्धपदस्य विनिर्मुक्तकर्मावस्थाया वा समर्पकं चक्रम् सिद्धचक्रम् | 'संस्तुवे' सम्यक् - प्रकारेण शोधितमनोवाक्कायेन वा स्तुवे भजामि उपासनां कुर्वे वेत्यर्थः । अहं कर्ता इति अध्याहार्यम् । इदं पद्यचतुष्कम् मालिनीवृत्तम् । तल्लक्षणन्तु प्राक्कथितम् । . અથ સંપૂર્ણ પણે હણાયે છે પાપાના સમૂહ જેનાવડે એવા, શ્રેષ્ઠ એવા કુશલની શ્રેણનાં ક્રીડાગૃહ સરખા, શુદ્ધ મન્ત્રાવડે પ્રધાન, વિશાલ અને અસાધારણ વૈભવાના સ્થાનભૂત, ધ્રુવેન્દ્રો અને
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy