________________
श्रीपर्युषणापर्वस्तुतिः ..
[२७१] अर्चनां पूजां भक्तिम् । 'कृत्वा' विधाय । ' अहन्मतोल्लासकैः । अर्हता अर्हति सुरेन्द्रादिकृतपूजाम् अष्टप्रातिहार्यचतुस्त्रिंशदतिशयादिकामिति...तेन मतं स्वीकृतम् अचिंतं वा जिनशासनमित्यर्थः, तस्य आहेतशासनस्य उल्लासकैः प्रभावकैः एतज्जैनदर्शनं सर्वोपरीति ज्ञापकै वा । 'सुमहैः' शोभनैः अत्यन्तै वा महैः महोत्सवैः उद्यापन-सङ्घयात्रा-रथयात्रा-पूजादिलक्षणे ; कृत्वा । 'मानुष्यम्' नरत्वम् । 'सफलम् ' फलेन सह वर्तते यद् तद् सार्थकम् । "विधत्त' समाचरत कुरुध्वमित्यर्थः । इदं पद्यचतुष्कं शार्दूलविक्रीडितवृत्तम् तल्लक्षणन्तु पूर्वोक्तम् ।
અથ–હે ભવ્યજનો! જે મોક્ષને વિષે ઈચ્છા છે તે પર્યુષણ નામનાં પર્વનું સુંદર આરાધન આદર સાથે કરે અને ભક્તિથી પુષ્પો અને ચંદનથી દ્રવ્યપૂજા તથા સ્તુતિનાં સમૂહવડે ભાવપૂજાને કરીને અરિહંતના શાસનને ઉલ્લસિત કરનાર સુંદર મહોત્સવડે મનુષ્યપણને સફલ કરે. समास
भव्यजनाः !-भव्याश्चामी जनाश्च-भव्यजनाः, तत्संबोधनम्-भव्यजनाः । ( वि. पू. क. ) . .
पर्युषणाभिधस्य -पर्युषणा अभिधा यस्य तद्-पर्युषणाभिधम् , तस्य-पर्युषणाभिधस्य । ( स. ब. बी.)
स्वाराधनम्-शोभनम् आराधनम्-स्वाराधनम् , तद्-स्वाराधनम् । (सु. पू. त. पु. )
सादरम्-आदरेण सह वर्तते यद् तद्-सादरम् , तद्-सादरम् । (सहार्थ. ब. वी. )