SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [ २४० ] प्रकीर्णकस्तुतिकूलम् त्रिपदीम्-त्रयाणां पदानां समाहार:-त्रिपदी, ताम्-त्रिपदीम् । (द्विगु. क. ) " द्विगोः समाहारात्० " २।४।२२...डी, गच्छेश्वरैः-गच्छस्य ईश्वराः-गच्छेश्वराः, तैः - गच्छेश्वरैः । (ष. त. पु.) __ प्रणम्य-प्रकर्षेण नत्वा-प्रणम्य । (गति. त. पु. ). जिनपादयुगम्-जिनस्य पादौ-जिनपादौ, (ष. त. पु. ) जिनपादयोः युगम्-जिनपादयुगम् , तद्-जिनपादयुगम् । (ष. त. पु.) युगादौ-युगस्य आदिः- युगादिः, तस्मिन्-युगादौ । (प.त.पु.) शुभार्थनिकरैः-शुभाश्चामी अर्थाश्च-शुभार्थाः, ( वि. पू. क. ). शुभार्थानां निकरा-शुभार्थनिकराः; तैः-शुभार्थनिकरैः । (प.त.पु.) गोमुखयक्षगुणगानम् , यक्षेश्वरस्तव जिनेश्वर ! गोमुखाह्वः, सेवां व्यधत्त कुशलक्षितिभृत्पयोदः । त्वत्पादपङ्कजमधुव्रततां दधानो-, ऽवालम्बनं भवजले पततां जनानाम् ॥ ४ ॥ अन्वय जिनेश्वर ! कुशलक्षितिभृत्पयोदः, भवजले पततां जनानाम् अवालम्बनं, त्वत्पादपङ्कजमधुव्रततां दधानः, गोमुखाहः, यक्षेश्वरः तव सेवां व्यधत्त.... यक्षेश्वर इति...'जिनेश्वर !' जिनानां वीतरागाणाम् ईश्वरः स्वामी तत्संबोधनम् । 'कुशलक्षितिभृत्पयोदः' कुशलं पुण्यं मङ्गलं वा तदेव क्षितिभृद् क्षिति पृथ्वीं बिभति धारयतीति क्षितिभृत् पर्वतस्तस्योल्लासने यद्वा क्षितौ मह्यां बिभर्ति पुष्णाति इति वृक्षस्तस्य
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy