________________
[२१८ ]
प्रकीर्णकस्तुतिकूलम् गन्धर्वा व्यन्तरा अमी" ॥९१ ॥ इति हैमः ( २१९०) । 'महिमगुणनिधिः ' महिमा प्रभुत्वं च गुणाः शौर्यादयः सम्यग्दृशां विघ्नहरणत्वपरोपकाररसिकत्वप्रभृतयो वा च निधीयन्ते स्थाप्यन्ते यत्र महत्तागुणपात्रमित्यर्थः । यद्वा महिमा महत्त्वमेव गुणो निधीयतेऽत्र प्रभुतागुणमय इत्यर्थः । ' चण्डदोर्दण्डधारी' चण्डौ अतिबलवन्तौ “चण्डस्तु यमदासेऽतिकोपने । तीव्र दैत्यविशेषे च" इत्यनेकार्थः (२।११५ ) । दोषौ हस्तौ " दो दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा" इति धनञ्जयः, तौ एव दण्डो यष्टिरायुधविशेषस्तं धरतीति.... प्रचण्डभुजावलीत्यर्थः । 'महौजाः' महद् गुरुतमम् ओजः तेजो बलं वा यस्य . परमतेजस्वी अतिपराक्रमी वा। "ओजो दीप्ताववष्टम्मे प्रकाश-बलयो. रपि" इति मेदिनी ( १७१।२०)। ' स्तम्भहस्तोत्कटास्थम् ' स्तम्भः स्थूणः “ स्तम्भः स्थूणाङ्गजाड्ययोः इत्यनेकार्थः" ( २।३०७ )। तद्वत् दृढत्वात् स्थूलत्वाच्च हस्तः करिकरः शुण्डा वा “ हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च ।। ७५ ॥ ऋक्षे केशात्परो वाते" इति मेदिनी (५९।७५/७६ )। तेन उत्कटं विकरालम् आस्यं मुखं यस्य तम् । “ निष्पकव्योमनीलधतिम्" निर्गतानि दूरीभूतानि पङ्कानि मलानि यस्मात् तादृशं व्योम गगनम् "व्योम वारिणि चाकाशे भास्करस्यार्चनाश्रये।" इति मेदिनी (९२॥३६) । तद्वत् नीला श्यामा द्युतिः कान्तिः यस्य तम् । 'अलसदृशम् ' अलसे मुग्धे दृशौ दृष्टी लोचने वा यस्य तम् । 'बालचन्द्राभदंष्टम् ' बालः शिशुवयस्थ उद्यन् सन् वा यश्चन्द्र इन्दुस्तमिव आभातः दृश्येते तुल्ये वा दंष्ट्रे दन्तौ यस्य तम् । 'द्विपेन्द्रम्' द्विपानां द्वाभ्यां पिबन्ति तेषां हस्तिनाम् इन्द्रः स्वामी तम् । 'अध्यारूढः' आसीनः । 'वरभवनगतः' वरं श्रेष्ठ भवनं निकेतनं गतः स्थितः