SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ स्नातस्यापादपूर्तिस्तुतिः [ २११ ] हरिः" इति हैमः (६३२ )। क्षीरार्णवस्य-क्षीरवत् अर्णः यस्मिन् क्षीरार्णवः क्षीरसमुद्रस्तस्य अम्भोभिः नीरैः भृतैः 'पूर्णैः' कुम्भैः कलशैः “कुम्भो राश्यन्तरे हस्तिमू(शे राक्षसान्तरे कार्मुके वारनार्यां च घटे क्लीवं तु गुग्गुलौ ॥ इति मेदिनी (१०६।२-३) 'येषाम् ' ये भूतास्तीर्थकृद्भगवन्तस्तेषाम् । 'जन्ममहः'-जन्मनि जननकाले यो महः उत्सवः। " महः उद्यव उत्सवः " इत्यमरः । ( १७३८)। प्रादुर्भतप्रमोदप्रकटीकरणाय . सर्वशः स्वस्वपरिवारपरिवृतैः जिनजन्माभिषेकलक्षणो महोत्सवः । 'कृतः' रचितः विहितो वा। 'सर्वे' समस्ताः “ सर्व समस्तमन्यून समग्रं सकलं समम्" इति हैमः (६६१) । 'अपि' समुच्चयार्थे “ गर्दासमुच्चय-प्रश्न-शङ्का-सम्भावनास्वपि" इत्यमरः (३।३।२४८)। " तीर्थाधिपाः" तीर्थस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य पुण्यक्षेत्रस्य वा अधिकं पान्ति. रक्षन्तीति अधिपाः स्वामिनः तीर्थकरभगवन्त इत्यर्थः। 'भवताम् ' युष्माकम् । 'श्रेयःशर्मकृते' श्रेयः प्रशस्यतमं परमं वा "श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्वातिशोभने" इत्यमरः (३।११५८ )। तादृशं शर्म सुखम् , यद्वा श्रेयो मोक्षः श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत् ।" इति मेदिनी ( १७३।४३ )। तस्य शर्म सुखं तस्य कृते प्रयोजनं । 'भवन्तु' सन्तु । ... .. અર્થ–મેરૂગિરિ ઉપર સાદર-ભક્તિવાળા દેવડે ઈન્દ્રાણુનાં સ્તનનાં ગર્વનું ખંડન કરવામાં તત્પર, સુવર્ણમાંથી બનેલા, હંસોની પાંવડે ચારે બાજુથી હણાયેલા કમલેની રજથી કાબરચિતરાવણવાળા ક્ષીરસમુદ્રનાં જલથી ભરાયેલ, કલશોવડે જેઓ (તીર્થંકરદેવ)ને જન્મમહોત્સવ કાર્યો હતો તે સર્વે પણ તીર્થકર ભગવંતે આપના મેક્ષસુખને કરવા માટે હો (થાઓ).
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy