________________
[ २१०]
प्रकीर्णस्तुतिकूलम्
द्भवैः इंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः कुम्भैः येषां जन्ममहः कृतः (ते) सर्वे अपि तीर्थाधिपाः भवतां श्रेयः शर्मकृते भवन्तु ।
( २ - ५ - ) श्रेयः शर्मकृत इति - ' सुरगिरौ' सुराणां देवानां गिरौ पर्वते मेरुपर्वते । 'सादरै: ' आदरेण सह वर्तन्ते ये तैः भक्तिभावभृतैरित्यर्थः । ' वृन्दारकै : ' प्रशस्तं वृन्दमस्ति येषां तैः " वृन्दादारकः " ( सि० ७२।११) इति आरकः अमरैः । “ वृन्दारको मनोरमे ॥ ३४ ॥ सुरे श्रेष्ठे " इत्यनेकार्थः (४।३४ । ३५) ' पौलोमीस्तनगर्वखण्डनपरै: ' पौलोम्याः पुलोम्नः मुनेरपत्यं स्त्री - पौलोमी इन्द्राणी " बाह्वादिभ्यो गोत्रे " ( सि - ६ |१| ३२ ) इति इञ, " इञ इतः " ( सि - २।४।७१ ) इति ङी च तस्याः " प्रिया शचीन्द्राणी पौलोमी जयवाहिनी " इति हैम : (२२८९ ) | स्तनयोः पयोधरयोः “स्तनौ कुचौ पयोधरौ " इति हैमः (३) २६७ ) । यो गर्वः दर्पः अहं सर्वोपर्यस्मीत्याकारकमिथ्याभिमानो वा " अभिमानस्त्वहङ्कारो गर्वोऽस्त्री " इति वैजयन्ती । तस्य खण्डने विनाशने परैः कुशलैः । ' सुवर्णोद्भवैः ' सुवर्णाद् कन - काद् उद्भवः उत्पत्तिर्येषां तैः हेममयैरित्यर्थः । 'हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' हंसानां श्वेतशकुनीनां तन्नामपक्षिविशेषाणां वा, "हंसः स्यान्मानसौकसि । निर्लोभनृप विष्ण्वर्कपरमात्मन्यमत्सरे | योगभेदे मन्त्रभेदे शारीरमरुदन्तरे || तुरंगमप्रभेदे च इति मेदिनी (१७०।१२ - १४ | ) असे अवयवैः उपलक्षणात् पक्षैः अत्र तु हंसस्यैकावयवविशेषः पक्षो गृह्यते उड्डयनक्रियायां पक्षप्रसारणत्वात्, आहतानि ताडितानि यानि पद्मानि कमलानि " पद्म व्यूहे निघावहौ । संख्याब्जयोः पद्ममिभविन्दौ " इत्यनेकार्थः ( २३२१ ) । तेषां रेणुभिः परागकणैः कृतानि कपिशानि पिङ्गलानि कृष्णपीतवर्णमिश्रितानि वा "पिशङ्गः कपिशो
-