SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रोमौन एकादशीस्तुतिः [ १७९ ] ( २२६० ) । तस्य वान्तौ दूरीकरणे विनाशे । ' रविकरनिकरः रवेः सूर्यस्य " भानुसः सहस्रांशुस्तपनः सविता " इत्यमरः । ( १।३।३१ ) | कराणां किरणानां " पाद - दीधिति-कर- द्युतिद्युतोरुग्विरोक - किरण- त्विषि त्विषः " इति हैमः ( २|१४ ) । निकरः समृहः इव | " सङ्घाते प्रकरौघवार - निकर व्यूहाः समूहश्चयः " इति हैम: ( ६ । ४७ ) । ' श्रीभाग ' श्रियम् ऐश्वर्यं चतुस्त्रिंशदतिशयाष्टमहाप्रातिहार्य स्वरूपबाह्याम् अनन्तज्ञान-दर्शनचारित्राद्यात्मिकाभ्यन्तरां लक्ष्मीम् भजतीति भूतिभागीत्यर्थः । 'नेमिः ' द्वाविंशस्तीर्थपतिः, धर्मचक्रस्य नेमिवन्नेमिः, नेमिशब्दः इनन्तोऽप्यस्ति "नेमिनं नौमि भक्त्या " इति प्रयोगदर्शनात् " नेमौ नेमीत्यपीक्ष्यते " इति हैमशिलोच्छे । 6 । जलशयस विधे जलशयस्य- जले शेते तस्य कृष्णस्य सविधे समीपे पार्श्वे वा । " पार्श्व समीपं सविधं ससीमाभ्यासं सर्वशान्तिकसन्निकर्षाः " इति हैमः (६।८६) । ' एकादशीयाम्' एकादशी पर्वसम्बन्धिनीम् । 'स्फूर्तिम्' प्रकाशम् प्राकथं वा । " बभाषे ' भाषितवान् । 'तीव्रलोभाद्रि वज्रम् ' तीव्र: बाढः यो लोभः चतुर्थकषायः मूर्च्छाविशेषोः वा स एव अद्रिः भूधरः पर्वतो वा, " महीधे शिखरिक्ष्माभृदहायेवर पर्वताः । अद्रि-गोत्रगिरि ग्रावाचल-शैल-शिलोच्चयाः । " इत्यमरः ( २|३|१ ) । तद्भेदने वज्रम् प्रहरणविशेषमिव " वज्रं त्वशनि हदिनी स्वरुः शतकोटिः पविः शतो दम्भोलि भिंदुरं मिदुः " इति है : ( २९४ ) | पुनः किंभूतमेतत्पर्व । ' श्रेयः ' प्रशस्यत
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy