________________
[ १८० ]
प्रकीर्णकस्तुतिकूलम् मम् कल्याणकारिवा 'तत्'-उक्तलक्षणम् । 'पर्व' आराधनप्रधान तिथिः एकादशीदिनमिति वा। "वा" यथा अत्र वा शब्दो यथार्थः। " व वा यथा तथैवेवं साम्ये" इत्यमरः (३।४।९) 'सुव्रतश्रेष्ठिनः' सुव्रताभिधानधनिनः । ‘शिवसुखम् ! शिवस्य मोक्षस्य सुखं करोतीति शिवसुखयतीति शिवसुखम् "णिज्बहु नाम्नः कृगादिषु" (सि. ३।४।४२)...णिज् , पश्चाद् "अच" (सि..५।११४९) अजन्तोऽयं शब्दोऽत एव शिवसुखकरमित्यर्थः। अभूत् ''अभवत् । 'इति' तथैव । 'वः' युष्माकम् । 'स्तात् ' अस्तु भवताद् वा ।
श्रीभाग...इति पदे श्रीः अतिशयाष्टमहाप्रातिहादिरूपा बाह्यमैश्वर्य प्रभोः पूजातिशयं ज्ञापयति अनन्तज्ञानादिस्वरूपा अभ्यन्तरलक्ष्मीः ज्ञानातिशयं द्योतयति...तद्वान् प्रभुः अतः एव श्रीभाग एतत्पदमेव अतिशयद्वयम् अवबोधयति । जलशयसविधे...वभाषे एतदखिलपदं तु वचनातिशयज्ञापकम् । अस्मिन्नपारे संसारे मोह-मदनमिथ्यात्वमेव दुष्टा अपायास्ते तेनाऽपेताः अथ अन्यजन्तूनामपि दूरीक्रियन्तेऽतः एव...माद्यमोहावनीन्द्र...इति वाक्यत्रयम् श्रीनेमिजिनेश्वरस्य अपायापगमातिशयं सूचयतीति अतिशयचतुष्कघटना । एतत्स्तुतिरपि स्रग्धरायां वर्तते तल्लक्षणन्तु पूर्वोक्तम् ।
અર્થ–મદેન્મત્ત મોહરૂપી રાજાને દમન કરવામાં બાણ સમાન, કામરૂપી અગ્નિને શાંત કરવામાં પાણી સમાન, મિથ્યાત્વરૂપી અંધકારને દૂર કરવામાં સૂર્યનાં કિરણોનાં સમૂહ સરખાં, લક્ષમીને ભજનાર એવા શ્રી નેમિનાથ પ્રભુએ કૃષ્ણ પાસે એકાદશીનાં મહિમાને કો, તત્ર લેભરૂપી પર્વતને ભેદવામાં વપ સમાન કલ્યાણકારી તે પર્વ સુત્રત-શ્રેષ્ટિને જે રીતે મેક્ષ સુખ કરનારું થયું એ પ્રમાણે तभने थाया...