________________
[ १७८ ]
प्रकीर्णकस्तुतिकूलम् मिथ्यात्वध्वान्तवान्तौ रविकरनिकरस्तीव्रलोभाद्रिवज्रम् , श्रेयस्तत्पर्व व स्ताच्छिवसुखमिति वा सुव्रतश्रेष्ठिनोऽभूत्॥१॥ अन्वय
माघन्मोहावनीन्द्रप्रशमनविशिखः, पञ्चबाणाचिरणः, मिथ्यात्वध्वान्तवान्तौ रविकरनिकरः, श्रीभाग, नेमिःजलशयसविधे एकादशीयां स्फूर्ति वभाषे तीव्रलोभाद्रिवज्र, श्रेयः, तत्पर्व सुत्रतश्रेष्ठिनः वा शिवसुखम् अभूत् इति वः स्तात् .... . ..
श्रीभागिति .... ' माद्यन्मोहावनीन्द्रप्रशमनविशिखः'- माद्यन् हर्षातिरेकात्स्वयं विह्वलीभूतस्सन् अन्यान् व्याकुलीकुर्वन् स्वायत्तीकृतसर्वसत्त्वात्....यो मोहः मोहनीयकर्म स एव अवन्याः पृथ्व्याः इन्द्रस्य स्वामिनः प्रशमनं प्रमथनं विघातनं वा तस्मिन् विशिखः विगता शिखा यस्य वाणः इव इघुसमो वा "वाणे-पृथत्कविशिखो" इति हैमः (३।४४२)। मदोन्मत्तमोहमहीपमारणबाणसदृक् श्रीनेमिरित्यर्थः । ‘पश्चवाणाचिरणः' पञ्च बाणा यस्य कामदेवः एव अचिः अग्निः तस्य प्रशमने अर्णः जलमिव । "वहनेयो
लि-कीलावहितिः शिखा स्त्रियाम्" इत्यमरः (१।११६०)। " अम्भोर्णस्तोय-पानीय-नीरक्षीराम्बु शम्बरम् इत्यमरः (१।१०।४)। मन्मथानलप्रशमननीरसदृक्ष इत्यर्थः। 'मिथ्यात्ववान्तवान्ती" मिथ्यात्वं दर्शनमोहनीयजन्यपरिणामविशेषः तदेव ध्वान्तम् अन्धकारम् " ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः” इति हैमः