________________
[ १६२ ]
प्रकीर्णकस्तुतिकूलम् पादैश्च योद्धृत्वादस्य पञ्चवक्त्र इत्यभिधानं प्रसिद्धमिति यद्वा 'पचुण विस्तारे' पच्यते इति पञ्चम्, पञ्चं विस्तृतं वक्त्रम् आननं यस्य पञ्चवक्त्र इत्यपि व्युत्पत्तिरभिधाने तस्य उपमानं तुल्यता यस्य सः ‘भावाऽकों: ' (सि. ५।३।१८)...धन्, । 'पञ्चमज्ञानवान् ' केवलज्ञानी, पञ्चानां पूरणम् पञ्चमम् केवलनामकं ज्ञानं ज्ञप्ति यस्य । 'प्रास्तकर्मप्रपञ्चः ' प्रकर्षण पुनः अनुद्भवत्वेन अस्तो ध्वस्तः प्रणाशितो वा, कर्मणाम् ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तराय-लक्षणानाम् अष्टविधकर्मणां प्रपञ्चो विस्तारो येन । 'प्रपञ्चो निप्रलम्भने ॥ १२९ ॥ विस्तारे सञ्चये चापि' इत्यनेकार्थः (३।१३०)। यदि कर्मसञ्चयो मूलतो विनष्टस्तर्हि तजन्य-शरीराधुपाधिरपि कुतः सम्भवेद् । अत एवोक्तम् ‘पञ्चदेह्याः निर्मुक्तः' पञ्चशरीरात् संत्यक्तः पञ्चानां देहांनां कायानां समाहारःपञ्चदेही-पञ्चशरीरमित्यर्थः। द्विगुकर्मधारयस्तत्पश्चात् 'द्विगोः समाहारात् ' (सि. २।४।२२)..डी, तस्याः पञ्चकायसम्बन्धात् निर्मुक्तः दूरीकृतः ।
श्रीनेमिनाथप्रभुणा औदारिकवैक्रियाहारकतैजसकार्मणलक्षण-पञ्चशरीराणि विमुक्तानि तत्प्रभवस्थान-नामकर्मणः क्षपितत्वादित्यर्थः । एतविशेषणद्वयस्य अनुरूपमेव तृतीयं निम्नलिखितविशेषणमवबोध्यम् । दुःखस्वरूपं यदि किश्चित् तदा देहा एव, यदि कर्माण्येव न विद्यन्ते तर्हि देहा कुतः ? यदि च देहा न सन्ति तहि दुःखस्य का वार्ता ! अत एवाने उवाच हि 'परमसुखमयः' परमं श्रेष्ठम् उच्चतमं वा प्रचुरं सुखमाहादश्चित्तप्रसन्नता वा यस्य यस्मिन् वा “प्रकृते मयट् ” (सि. ७।३। १)....मयट् । 'श्रीनेमिः' श्रिया लक्ष्म्या, 'श्री लक्ष्म्यां सरलद्रवे, ॥ १२ ॥ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभा त्रिवर्गसंपत्योः....'