________________
श्रीज्ञानपञ्चमीस्तुतिः .
[१६१] दशाः अवस्थाः जन्म-कौमार्य-मृत्युरूपाः येषां, “ त्रिदशा अमर्त्याः स्वाहा -स्वधाक्रतु-सुधाभुज आदितेयाः" इति हैमः (२। ८८) । तेषां पत्या स्वामिना, ” पतीन्द्र. स्वामि-नाथार्याः प्रभु-भर्तेश्वरो विभुः ईशितेनो नायकाश्च "-इति हैमः ( २। ३५९) । कृतः विहितः “डुकुंञ् करणे " (४४४ ) कृ-धातोः कर्मण्यर्थे ' तत्साप्यानाप्यात् ' (सि. ३।३।२१). इति विहितः ‘क्त-क्तवतू' (सि. ५।१।१७४) इत्यनेन च क्त-प्रत्ययो भूतः । प्राज्यः अतिशयः प्रभूतो वा, 'प्राज्यं-प्रभूत-प्रचुरं-बहुलं-बहुपुष्कलम् ॥ भूयिष्ठं-पुरुहं भूयो भूयो दनं पुरु-स्फिरम् ' इति हैमः (६।६१।६२)। जन्माभिषेकः जन्मनि जननवेलायां क्रियमाणो यो अभिषेकः स्नानक्रियाविशेषो यस्य सः । एतदखिलं पदं श्रीनेमिरित्यस्य विशेषणं ज्ञेयम् । 'चञ्चत्-पञ्चाक्ष-मत्त-द्विरद-मद भिदा-पञ्चवक्त्रोपमानः' चञ्चत्चञ्चलम् अस्थिरं वा पञ्चाक्षम्-पश्चानाम् अक्षाणाम् इन्द्रियाणां समाहारः ....पञ्चहृषीकमिति “अक्षं सौवर्चले तुल्ये हृषीके स्याद् ” इत्यनेकार्थः (२५४४) । तदेव मत्तः मायतीति मत्तः 'गत्यर्थाऽकर्मक०' (सि. ५। १।११)...क्त 'डीयश्व्यैदितः' (४।४।६१ )....इडभावश्च, व्याकुलः सन् व्याकुलीकुर्वन् “शौण्डो मत्ते च विख्याते पिप्पल्यां च भवेत् स्त्रियाम् ” इति विश्वः । तादृशो यो द्विरदः द्वौ रदौ दन्तौ यस्य तस्य हस्तिनः गजराजस्य वा, 'स्तम्बेरम द्विरद-सिन्धुर-नाग-दन्तिनो....इत्यादि हैमः (४।२८३) । भिदायां भेदने द्वैधीकरणे वा, भिद्यते अनयेति भिदा 'भिदादयः' (सि. ५।३।१०८) ...अङ्, स्त्रिय आप् च, अपाकरणमित्यर्थः, तस्यां पञ्चवक्त्रस्य पञ्च वक्त्राणि मुखानि यस्य सिंहस्य 'मुखेन