________________
दुर्बोधः संशयस्तस्य, न भग्नस्तत्र केनचित् । किंवदन्ती त्वियं नव्या, सर्वत्र प्रासरत्पुरे ॥ ७९०॥ धनदत्तः पुरक्ष्मापमहत्त्वं रक्षितुं तदा । तत्रागात्तत्सुरीदत्तविवेकोत्पन्नसन्मतिः ॥ ७९१॥ ऊचे चाब्धौ जलं स्तोकं, भद्र ! भूयांश्च कर्दमः । . तव चित्ते न चेदत्र, मदुक्ते प्रत्ययो ध्रुवम् ॥ ७९२ ॥ सर्वाः स्त्रवन्तीर्गाद्या, निपतन्तीनिवार्य तत् । । सिन्धुस्सर्वाम्भसां संख्यां; सावधानमनाः सृजः ॥ ७९३॥ पश्चात्तदम्बु निःशेषं, पृथक् कृत्वा च वारिधेः । । पङ्कसंख्यां कुरुष्वात्र, स भूयान् भविता ध्रुवम् ॥ ७९४॥ इत्यसाध्यविदग्धोक्तियुक्तिप्रतिहतश्च सः । ... स्वस्य व्रीडाविलक्षास्यो, मन्यमानः पराजयम् ॥ ७९५॥ समोक्तानि रत्नानि, धनदत्ताय सत्वरम् । यातो निर्गत्य नगराद्धस्यमानो जनैः क्वचित् ॥ ७९६ ॥ युग्मम्॥ प्रशस्यमानसद्बुद्धिस्तुष्टेन क्ष्माभुजा भृशम् । सत्कृतो धनदत्तश्च, सोत्सवं स्वगृहे ययौ ॥ ७९७॥ कश्चिन्महेभ्यसार्थेशवेषभाक् तत्र चाऽन्यदा । धूर्तोऽथ स्फारशृङ्गारः, सुरूपो नवयौवनः ॥ ७९८ ॥ स्वर्णद्वादशकोटीशाऽनङ्गलेखापणस्त्रियाः । रूपसौभाग्यवसतेरागात्सद्मनि गूढहृत् ॥ ७९९॥ युग्मम् ॥ तदा नूनं महेभ्योऽयं, कोऽपीत्यावर्जनाय सा । स्वानुरागं दर्शयन्ती, जजल्प कपटे पटुः ॥ ८००॥ 1. गूढ ६४यवाणो.
-
-