________________
स्वप्ने मयाद्य त्वत्प्राप्ता, द्वादर्श स्वर्णकोटयः 1 कल्पद्रुकल्पे सद्माप्ते, सत्यं ह्येतदभूत्त्वयि ॥ ८०१ ॥ धूर्तोऽप्यूचे शुभे ! सत्यमेतत्स्वप्नेऽद्य यन्मया । द्वादशेस्वर्णकोट्यो हि, न्यासे मुक्तास्तवौकसि ॥ ८०२ ॥ सद्भोगसुखलुब्धात्मा, वर्षाणि द्वादशान्वहम् । तव वेश्मनि वत्स्यामि, निगद्येति स्फुटाक्षरम् ॥ ८०३॥ परं देशान्तरे सार्थश्चलन्नस्त्यधुनोत्सुकः । व्यवसाये महाँल्लाभस्तत्र चाप्तवतोऽद्य मे ॥ ८०४ ॥ तत्तत्र गत्वा त्वरितं, बहूपार्ण्य धनं पुनः । त्वत्सौभाग्यगुणाकृष्टः, समेष्यामि त्वदौकसि ॥ ८०५ ॥ तेनाद्यार्पय ताः स्वर्णकोटीर्द्वादश सत्वरम् । धूर्त्तेनेति ब्रुवाणेन, गृहीता तेन सा करे ॥ ८०६ ॥ किमेतदिति जल्पन्ती, नीता चाशु चतुष्पथम् । विवादः स तयोर्भग्नः सुधियापि न केनचित् ॥ ८०७॥ सर्वत्र पूर्वं पण्यस्त्री, हास्यास्पदमियं पुनः । वराकी तद्विवादेन, विशिष्याऽजनि निष्कला ॥ ८०८ ॥ तत्कथञ्चित्ततो धूर्त्तविषादान्मुक्तिमिच्छती । भृत्यैः पुरान्तः पटहं, सा सर्वत्रेत्यवीवदत् ॥ ८०९ ॥ विवादान्मोचयत्यस्माद्यो मां सम्प्रति सत्पुमान् । स मे बन्धुः परस्तस्मै, स्वर्णकोटिं ददे पुनः ॥ ८१० ॥ तत्राऽगाज्ज्ञाततद्वत्तो, विवेकविकसन्मतिः । तयोर्विवादभङ्गार्थं, धनदत्तस्तदा द्रुतम् ॥ ८११ ॥
१. 'स्वर्णद्वादशकोटयः' इत्यपि । २. 'स्वर्णद्वादशकोट्यो हि' इत्यपि ।
८१