________________
इति मानसिकानेकदुःखदाहार्द्दिताशयः । भवाद्विरक्तः समभूत्सिद्धदत्तश्च तापसः ॥ ७७८ ॥
धंनदत्तमथाहूयेत्यवग् राजा सविस्मयम् । बहुलाभेऽपि रत्नानि श्रेष्ठिन्नात्तानि किं त्वया ? ॥ ७७९॥ आशक्रकीटं सर्वत्राऽस्खलितप्रसरः पुनः ।
लोभः स्वचित्ते प्रविशन्, कथं नाम न्यरुध्यत ? ॥ ७८० ॥ स्वनिर्दोषत्वनिशङ्कः, सोऽप्यवादीत्तदा नृपम् । लोभमूलानि पापानि, लोभश्चेदगुणेन किम् ? ॥ ७८१ ॥ इत्याद्यनेकशास्त्रार्थान्, मन्त्रवत्स्मरतोऽन्वहम् । ममासन्नीभवेल्लो भपिशाचो नहि कर्हिचित् ॥ ७८२ ॥ युग्मम् ॥ अन्यच्च बहुलाभेऽपि, स्तैन्यं स्तैन्याहृतं च यत् । त्याज्यं विशुद्धन्यायाध्वाऽध्वनीनैः सर्वथोत्तमैः ॥ ७८३॥ स्वामिन्! सन्तोषमादृत्य, तानि नाऽत्तानि तन्मया । ततो निर्लोभताहृष्टः, सच्चक्रे तं भृशं नृपः ॥ ७८४॥ अनासक्ततया सप्तव्यसनेष्वथ सर्वदा । शुद्धव्यवहृतौ निष्ठतया सद्धर्म्मवत्तया ॥ ७८५ ॥ तथ्यपथ्यप्रियोक्तित्वात्सर्वत्रैौदार्यतस्तथा । वर्द्धमानमहत्त्वर्द्धिः, सोऽभूत्सर्वजनप्रियः ॥ ७८६ ॥ युग्मम् ॥ अथान्यदा नृपसदो, धूर्त्तः कोऽप्यगमत् । प्रत्येकं कोटिमूल्यानि पञ्चरत्नानि दर्शयन् ॥ ७८७ ॥ सावष्टम्भमवक् चैवं, समुद्रेऽस्ति कियज्जलम् । कर्द्दमश्च कियानेवं, संशयो हृदि मे चिरात् ॥ ७८८ ॥ न्यूनाधिकत्वं यः सम्यग्, विद्वान् वेत्त्यनयोर्ध्रुवम् । मां च प्रत्याययेत्तस्मै, पञ्चाप्येतान्यहं ददे ॥ ७८९॥
७८