________________
तानि प्राग् धनदत्ताय, दर्शितानि मया रहः । नाऽगृह्णत्स त्वहं सिद्धदत्तायाप्पितवांस्ततः ॥ ७६७॥ पुरारक्षोऽथ तद्वृत्तं सर्वं राज्ञे न्यवेदयत् । सोऽतीव कुपितः स्तैन्याहृतरत्नक्रयात्तदा ॥ ७६८ ॥ सिद्धदत्तेभ्यमाकार्य, सद्यो गुप्तिगृहेऽक्षिपत् । सर्वथा चाऽन्नपानीयनिषेधं तस्य निर्ममे ॥ ७६९ ॥ युग्मम् ॥
,
ba
धनाढ्यतायामप्यागात्कार्येऽन्येषां नहि क्वचित् । कष्टे तस्येत्यनिष्टस्योपेक्षां पौरा व्यधुः पुनः ॥ ७७० ॥ दिनैः कतिपयैः सोऽथ, बाध्यमानः क्षुधादिभिः । क्ष्माभुजे सद्मसर्वस्वं समर्प्य स्वममूमुचत् ॥ ७७१ ।। सद्माप्तः सोऽथ तद्रिक्तं, धनधान्यादैिवस्तुभिः । इष्टाङ्गमिव निर्जीवं वीक्ष्याऽभूद्गुरुदुःखभाग् ॥ ७७२ ॥ दध्यौ पुनर्मनस्येवमियत्कालं ममौकसि । देवीप्रसादात्कमला, समागात्सर्वतोमुखी ॥ ७७३ ॥ त्यागभोगवियुक्तस्य, मुक्तस्य स्वजनादिभिः । निर्विवेकस्य में सम्प्रत्येवमेवागमच्च सा ॥ ७७४॥ ऐहिकामुष्मिकौचित्यकृत्येषु श्रीर्ममौकसि । सोपयोगा क्वचिन्नाभूदटव्यामिव मालती ॥ ७७५ ।। ततः स्वभावाच्चपलां, विपुलां कमलामिमाम् । एकान्तेनैतदासक्तं, मूर्खराजं हि मां च धिग् ॥ ७७६ ॥ उभाभ्यां लब्धमावाभ्यां, देवीपार्श्वाद्यथार्थितम् । फले तत्तत्तु वैचित्र्यं, हहाऽभूत्प्राच्यकर्मणा ॥ ७७७॥ १. 'क्षुदादिभि:' इत्यपि ।
७८